________________ श्रीसिद्धसेन दिवाकरप्रणीता 619 विपर्यासात्मकं मोहसङ्गात् तृष्णा स्मृतेर्मनः / संकल्पश्चेतनाकम चेतयित्वोपचारतः // 8 // चक्षुरूपादिसंस्कारसमुत्थं सर्वजातिषु / / विज्ञानमिव ज्ञातीनां नानात्वमिति जातितः // 9 // चित्तवद् रूपकार्यस्य वैलक्षण्यं क्षणे क्षणे। तद्धि जात्यन्तरं तुल्यं न बाध्यत्युपपत्तितः // 10 // सत्त्वोपचारौ व्युच्छिन्नौ स्कन्धान पञ्चकल्पवत् / शून्यता वा प्रतिष्ठत्वादेतदेव प्रपञ्चितम् // 11 // स्कन्धप्रकारं पश्यन्तो जमत्पुष्पोपकारवत् / किमस्तीत्युपगच्छेयु. किमेव तु ममेति वा // 12 // वाह्यमायतनं नात्मा यथा नेत्रादयस्तथा / तद्विकल्पगतिश्चित्त-मनः कस्यात्र किं यथा // 13 // हेतुप्रत्ययवैचित्र्यात् तानेवमिति भक्तयः / कथं हि संप्रधाथैतं भावो भावविशेषतः // 14 // संमोहात् स्मरणात् तत्त्वकलाभावान्न कर्मणः। . क्षणिकत्वादिशुद्धेश्च निर्वाणाच्च प्रदीपवत् // 15 // निर्वाणं सर्वधर्माणामविकल्पं क्षणे क्षणे / . हेतुप्रत्ययभेदात् तु तदन्त इव लक्ष्यते // 16 // संसारे सति निर्वाणं क्षणिकस्य गतिः कुतः / जन्मवत् तेन चित्तस्य निर्वाणमपि संस्कृतम् // 17 // यत् संस्कृतमनित्यं तद् भङ्गादन्योऽन्यसंस्कृतम् / निर्वाणमनसां यस्माद् भुक्तेविप्रतिषेधनात् // 18 // ..