________________ श्रीसिद्धसेनदिवाकर प्रणीता 617 अन्योऽन्यथा स द्रव्यादिसत्ताभावात् सदान्तरम् / अनारम्भाविनाशाच्च तेषु स्मृतिविरोधिनः // 19 // अभूदभूताद् भवतीत्यपेक्षा चापि कारणात् / भविष्यतीति दृष्टत्वात् कार्यान्तरनियोगतः // 20 // आत्ममानससंयोगविशेषादेव खादिषु / / सामान्यात् संशयः स्वप्नः स्मृतीश्चादृष्टसंस्कृतैः // 21 // संप्रबुद्धेषु विज्ञानमभिसन्धिविशेषतः / सतत्त्वव्यञ्जनं तेषां प्रदीपद्रव्ययोगवत् // 22 // अव्यूहादकुरैः सौक्ष्म्यान्नकदीपप्रकाशवत् / एतेनाक्ष-सनो-बुद्धयाद्यसंकरविनिर्णयः // 23 // अक्षप्रदोषाध्यारोपविद्यासुखप्रमाणतः / इच्छाद्वेषवतो यस्माद् धर्माधर्मविक्लप्तयः // 24 // शुद्धाभिसन्धिर्यः कश्चित् काय-वाङ्-मानसो विधिः / सर्वोऽदृष्टविशेषाय यस्य यत्र यदा यथा // 25 // द्रव्यादीन्यक्षतार्थस्य प्रसादोदयसाधनम् / तत्सामान्यफलान्यैक्याहते त्वक्षादिकल्पना // 26 // यथापदार्थविज्ञानं विद्यादृष्टिविशेषतः / तत्स्थैर्यमेव वैराग्य ग्रन्थार्थप्रतिपत्तिवत् // 27 // एवमात्मादिसंयोगेनाभिसन्धौ विपश्चितः।। नवं न चीयते बीजं पुराणं चापचीयते // 28 // प्राणायामादिसामर्थ्यादेश्वर्याच्चोपभोगतः। प्राणोत्थितौ मनोऽतन्त्रं न पुनः संप्रयुज्यते // 29 //