________________ चतुर्दशी वैशेषिकद्वात्रिंशिका वाय्वन्तानां न रूपादिजन्मधर्मविशेषतः / शब्दोऽनित्यस्तु साधात् सर्वार्थत्वाच्च नार्थवत् // 8 // .रूपादोनां स्वजातीयाः सामर्थ्याद् वसुधादयः / पृथक्शरीरजनका हेतुभेदात् त्वयोनिजम् // 9 // त्वक्चक्षुर्ग्रहणं द्रव्यं रूपाद्याश्चक्षुरादिभिः / संख्यादिभावकर्माणि यथोपाश्रययोगतः // 10 // सेतरैर्युगपत्क्षिप्रपरत्वैः कालसंभवम् / / इदमस्मादिति दिशो नानाकार्यविशेषतः // 11 // आत्मेन्द्रियादिसंयोगे बुद्धयभावाच्च मानसः / बुद्धयादेरात्मनः खादि शब्दादिविभवान्महत् // 12 // प्रपञ्चादपि दीर्घ वा हृस्वं वा परिमण्डलम् / रूप-स्पर्शवदेकत्वपृथक्त्वे वृत्तिजन्मतः // 13 // क्रियावतो; तुल्यं च संवियोगयुतस्थितौ / कारणं ध्वानेराभ्यां च संतानात् सलिलोमिवत् // 14 // देश-कालविशेषाभ्यां परं च गुणकर्मणाम् / ऐक्यादाश्रयतद्वत्ताभावे तद्बुद्धिधर्मतः / / 15 // द्रव-गौरव-संयोग-यत्न-संस्कारजाः क्रियाः / अदृष्टाच्चेति तत्संज्ञा-विकल्पो व्यवहारतः // 16 // संबन्धाद् बुद्धयपेक्षश्च कार्य चाज्ञस्य बुद्धयः / संज्ञास्तु भाव-द्रव्यादिनिमित्ताः समयात्मिकाः // 17 // निरुक्तार्थोपचाराभ्यामेता जातिविभक्तिषु / / हिनोति हीयते वेति हेतु गृह्णन्त्यमी गृहाः // 18 //