________________ एकादसी गुणवचनद्वात्रिंशिका mamim mmmmm.in चाटुप्रीतेन मुक्ता यदियमगणिता दीयते राजलक्ष्मी रन्योऽन्येभ्यो नृपेभ्यस्त्वदुरसि नृपते ! याऽपि विश्रम्भलीना / मा भूदेष प्रसङ्गो निरनुनयमतेरस्य मय्यप्यतस्ते कीर्तिस्तेनाप्रमेया नु विनयचकिता सागरानप्यतीता // 6 // अवश्यं कर्तव्यः श्रियमभिलषता पक्षपातो गुणेषु प्रसन्नायां तस्यां कथमिव च न ते लालनीया भवेयुः / किमेषां वृत्तान्तं न वहसि नृपते ! लालनीया त्वदाज्ञा __ महेन्द्रादीनां यद्गुणपरितुलनादुर्विनीता गुणास्ते // 7 // अन्येषां पार्थिवानां भ्रमति दश दिशः कीर्तिरिन्दुप्रभावत् त्वत्कीर्तेर्नास्ति शक्तिः पदमपि चलितुं किं भयात् सौकुमार्यात् / . आ ज्ञातं नैतदेवं श्रुतिपथचकिता तेन गच्छत्यजत्रं __ कीर्तिस्तेषां नृपाणां तव तु नरपते ! नास्ति कीर्तेरयातम् // 8 // अन्येऽप्यस्मिन् नरपतिकुले पार्थिवा भूतपूर्वा स्तैरप्येवं प्रणतसुमुखैरुद्धृता राजवंशाः / न त्वेवं तैर्गुरुपरिभवः स्पृष्टपूर्वो यथायं श्रीस्ते राजन्नुरसि रमते सत्यभामासपत्नी // 9 // अगतिविधुरैर्लक्ष्मी दृष्ट्वा चिरस्य सहोषितां / यदि किल परैरेकीभूतैर्गुणैस्त्वमुपाश्रितः / इति गुणजितं लोकं मत्वा नरेन्द्र ! सुरायसे .. वदतु गुणवान् बुद्धयादीनां गुणः कतमस्तव // 10 // गन्धद्विपो मधुकरानिव पङ्कजेभ्यो दानेन यो रिपुगणान् हरसि प्रवीरान् /