________________ सिद्धसेनदिवाकरप्रणीता 11. एकादशी गुणवचनद्वात्रिंशिका / समानपुरुषस्य तावदपवादयन् कीदृशः किमेव तु महात्मनामपरतन्त्रधीचक्षुषाम् / ... अपास्य विनय-स्मृती भुवि यशः स्वयं कुर्वता त्वयाऽतिगुणवत्सलेन गुरवः परं व्यंसिता // 1 // श्रीराश्रितेषु विनयाभ्युदयः सुतेषु बुद्धिर्नयेषु रिपुवासगृहेषु तेजः / वक्तुं यथाऽयमुदितप्रतिभो जनस्ते ____ कीर्ति तथा वदतु तावदिहेति कश्चित् / / 2 / / एकां दिशं व्रजति यद् गतिमद् गते च तत्रस्थमेव च विभाति दिगन्तरेषु / यातं कथं दशदिगन्तविभक्तमूर्ति युज्येत वक्तुमुत वा न गतं यशस्ते // 3 // सत्यं गुणेषु पुरुषस्य मनोरथोऽपि लघ्यः सतां ननु यथा व्यसनं तथैतत् / यत् पश्यतः समुदितैरबला व्युपास्ता कीर्तिस्तथा श्रुतिमुखानि वनानि याता // 4 // एतद् भो बृहदुच्यते हसतु मा कामं जनो दक्षिणः स्वार्थारम्भपटुः परार्थविमुखो लज्जानपक्षो भवान् / योऽन्यक्लेशसमर्जितान्यपि यशांस्युत्सार्य लक्ष्मीपथा कीयॆकार्णववर्षिणाऽपि यशसा नाद्यापि संतृप्यसे // 5 //