________________ नवमी वेदवादद्वात्रिंशिका तेनैवैतद् विततं ब्रह्मजालं दुराचरं दृष्टयुपसर्गपाशम् / ... अस्मिन् मग्ना मानवा मानशल्यैर्विवेष्यन्ते पशवो जायमानाः // 18 // अयमेवान्तश्चरति देवतानामस्मिन् देवा अघि विश्वे निषेदुः / अयमुद्दण्डः प्राणभुक् प्रेतयानरेष त्रिधा वृषभो रोरवीति // 19 // अपां गर्भः सविता वह्निरेष हिरण्मयश्चान्तरात्मा देवयानः / एतेन स्तम्भिता सुभगा द्यौर्नभश्च गुर्वी चोवी सप्त च भीमयादसः // 20 // मनः सोमः सविता चक्षुरस्य घ्राणं प्राणो मुखमस्याज्यपिवः / दिशः श्रोत्रं नाभिरन्ध्रमब्दयानं पादाविला सुरसाः सर्वमापः // 21 // विष्णुर्बीजमम्भोजगर्भः शम्भुश्चायं कारणं लोकसृष्टौ / नैनं देवा विन्दते नो मनुष्या देवाश्चैनं विदुरितरेतराश्च // 22 // अस्मिन्नुदेति सविता लोकचक्षुरस्मिन्नस्तं गच्छति चांशुगर्भः / एषोऽजस्रं वर्तते कालचक्रमेतेनायं जीवते जीवलोकः // 23 // अस्मिन् प्राणाः प्रतिबद्धाः प्रजानामस्मिन्नस्ता रथनाभाविवाराः। अस्मिन् प्रीते शोर्णमूलाः पतन्ति प्राणाशंसाः फलमिव मुक्तवृन्तम्॥२५ अस्मिन्नेकशतं निहितं मस्तकानामस्मिन् सर्वा भूतयश्चेतयश्च / महान्तमेनं पुरुषं वेद वेद्यमादित्यवर्ण तमसः परस्तात् // 25 // विद्वानज्ञश्चेतनोऽचेतनो वा स्रष्टा निरीहः स ह पुमानात्मतन्त्रः / क्षसकारः सततं चाक्षरात्मा विशायन्ते वाचो युक्तयोऽस्मिन् // 26 // बुद्धिर्बोद्धा बोधनीयोऽन्तरात्मा बाह्यश्चायं स परात्मा दुरात्मा / नासावेकं ना पृथग् नामि नाभौ सर्व चैतत् पशवो वं द्विषन्ति // 27 //