________________ ... . सिक्सेनदिवाकरप्रणीता सर्वात्मकं सर्वगतं परीतमनादि-मध्यान्तमपुण्य-पापम् / बालं कुमारमजरं च वृद्ध य एनं विदुरमृतास्ते भवन्ति // 28 // नास्मिन् ज्ञाते ब्रह्मणि ब्रह्मचर्य नेण्या जापः स्वस्तयो नो पवित्रम् / नाहं नान्यो नो महान् नो कनीयान् निःसामान्यो जायते निर्विशेषः // 29 // नैनं मत्वा शोचते नाभ्युपैति नाप्याशास्ते म्रियते जायते वा / नास्मिल्लोके गृह्यते नो परस्मिन् लोकातीतो वर्तते लोक एव // 30 // यस्मात् परं नापरमस्ति किञ्चिद् __ यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् / वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः तेनेदं पूर्ण पुरुषेण सर्वम् // 31 // नानाकल्पं पश्यतो जीवलोकं नित्यासक्का व्याधयश्चाधयश्च / यस्मिन्नेवं सर्वतः सर्वतत्त्वे / दृष्टे देवे नो पुनस्तापमेति // 32 // 10. दशमी द्वात्रिंशिका / अविग्रहमनाशंसमपरप्रत्ययात्मकम् / प्रोवाचामृतं तस्मै वीराय मुनये नमः // 1 //