________________ 598 श्रीसिद्धसेनदिवाकरप्रणीता सृष्ट्वा सृष्ट्वा स्वयमेवोपभुङ्क्ते सर्वश्चायं भूतसो यतश्च / न चास्यान्यत् कारणं सर्गसिद्धौ न चात्मानं सृजते नापि चान्यान् // 7 निरिन्द्रियश्चक्षुषा वेत्ति शब्दान् श्रोत्रेण रूपं जिघ्रति जिह्वया च / पादैर्ब्रवीति शिरसा याति तिष्ठन् सर्वेण सर्व कुरुते मन्यते च // 8 // शब्दातीतः कथ्यते वावदूकैर्ज्ञानातीतो ज्ञायते ज्ञानविद्भिः / बन्धातीतो बध्यते क्लेशपाशैर्मोक्षातीतो मुच्यते निर्विकल्पः // 9 // नायं ब्रह्मा न कपर्दी न विष्णुर्ब्रह्मा चायं शङ्करश्चाच्युतश्च / अस्मिन् मूढाः प्रतिमाः कल्पयन्ते ज्ञातश्चायं न च भूयो नमोऽस्ति // 10 आपो वह्निर्मातरिश्वा हुताशः सत्यं मिथ्या वसुधा मेघयानम् / ब्रह्मा कीटः शङ्करस्ताय॑केतुः सर्वः सर्वं सर्वथा सर्वतोऽयम् // 11 // स एवायं निभृता येन सत्त्वाः शश्वदुःखादुःखमेवापियन्ति / स एवायमृषयो यं विदित्वा व्यतीत्य नाकममृतं स्वादयन्ति // 12 // विद्याविधे यत्र नो संभवेते यन्नासन्नं नो दवीयो न गम्यम् / यस्मिन् मृत्युर्नेहते न तु कामः स सोऽक्षरः परमं ब्रह्म वेद्यम् // 13 // ओतप्रोताः पशवो येन सर्वे ओतः प्रोतः पशुभिश्चैष सर्वैः / सर्वे चेमे पशवस्तस्य होम्यं तेषां चायमीश्वरः संवरेण्यः // 14 // तस्यैवैता रश्मयः कामधेनोर्याः पाप्मानमदुहानाः क्षरन्ति / येनाध्याता पञ्चजनाः स्वपन्ति प्रोबुद्धास्ते स्वं परिवर्तमानाः॥१५॥ तमेवाश्वत्थमृषयो वामनन्ति हिरण्मयं व्यस्तसहस्रशीर्षम् / मनःशयं शतशाखपशाखं यस्मिन् बीजं विश्वमोतं प्रजानाम् // 16 // स गीयते वोयते चाध्वरेषु मन्त्रान्तरात्मा ऋग्-यजुः-सामशाखः / अधःशयो वितताङ्गो गुहाध्यक्षः स विश्वयोनिः पुरुषो नैकवर्णः // 17 //