________________ श्रीसिद्धसेन दिवाकरप्रणीता दुरुक्तमस्यैतदहं किमातुरो ... ममैष कः किं कुशलोज्झिता वयस् / .. गुणोत्तरो योऽत्र स नोऽनुशासिता मनोरथोऽप्येष कुतोऽल्पचेतसाम् // 27 // न गौरवाक्रान्तमतिर्विगाहते किमत्र युक्तं किमयुक्तमर्थतः / . गुणावबोधप्रभवं हि गौरवं कुलाङ्गनावृत्तमतोऽन्यथा भवेत् // 28 // न गम्यते किं प्रकृतं किमुत्तरं / किमुक्तमेवं किमतोऽन्यथा भवेत् / सदस्सु चोच्चैरभिनीय कथ्यते किमस्ति तेषामजितं महात्मनाम् // 29 // समानधर्मोपहितं विशेषतोऽविशेषतश्चेति कथा निवर्तते / अतोऽन्यथा न प्रतरन्ति वादिनस्तथा च सर्व व्यभिचारवद् वचः // यथाधमै यस्तु साध्यं विभज्य गमयेद् वादी तस्य कुतोऽवसादः / यदेव साध्येनोच्यते विद्यमानं तदेवान्यत्र विजयं संदधाति // 31 // मया तावद् विधिनाऽनेन शास्ता जिनः स्वयं निश्चितो वर्धमानः / यः संधास्यत्याप्तवत् प्रतिभानि स नो जाड्य भंस्यते पाटवं चेति // 32 // 7. सप्तमी द्वात्रिंशिका। . धमार्थकीर्त्यधिकृतान्यपि शासनानि . नाहानमात्रनियमात् प्रतिभान्ति लक्ष्म्या / ..