________________ ormmmmmm..mmm.wr त्रयः पृथिव्यामविपन्नचेतसो न सन्ति वाक्यार्थपरीक्षणक्षमाः / यदा पुनः स्युहदेतदुच्यते न मामतीत्य त्रितयं भविष्यति // 19 // पुरातनैर्यानि विसर्कगर्वितैः कृतानि सर्वज्ञयशःपिपासुभिः / घृणा न चेत् स्यान्मयि न व्यपत्रपा तथहिमघैध न वेद् धिगस्तु माम् // 20 // कृतं न यत् किञ्चिदपि प्रतर्कतः / स्थितं च तेषामिव तन्न संशयः / कृतेषु सत्स्वेव हि लोकवत्सलैः ___ कृतानि शास्त्राणि गतानि चोन्नतिम् // 21 // जघन्यमध्योत्तमबुद्धयो जना महत्त्वमानाभिनिविष्टचेतसः / वृथैव तावद विवदेयुरुत्थिता दिशन्तु लब्धा यदि कोऽत्र विस्मयः / अवश्यमेषां कतमोऽपि सर्वविज्जगद्धितैकान्तविशालशासनः / स एष मृग्यः स्मृतिसूक्ष्मचक्षुषा तमेत्य शेषैः किमनर्थपण्डितैः // यथा ममाप्तस्य विनिश्चितं वचस्तथा परेषामपि तत्र का कथा / परोक्ष्यमेषां त्वनिविष्टचेतसा परीक्ष्यमित्यर्थरुचिर्न वञ्च्यते // 24 // मयेदभ्यूहितमित्यदोषलं न शास्तुरेतन्मतमित्यपोह्यते / तथापि तच्छिष्यतयैव रम्यते कृतज्ञतैषा जलताऽल्पसत्त्वता // 25 // इदं परेषामुपपत्तिदुर्बलं कथञ्चिदेतन्मम युक्तमीक्षितुम् / अथात्मरन्ध्राणि च सन्निगृहते हिमस्ति चान्यान् कथमेतदक्षमम् //