________________ श्रीसिद्धसमदिवाकरप्रणीता यदेव किञ्चिद् विषमप्रकल्पित पुरासनैरुक्तमिति प्रशस्यते / 'विमिश्चिताऽप्यच मनुष्यवाक्कृतिर्न पाठ्यते यत् स्मृतिमोह एव सः // 8 // न विस्मयस्तावदयं यदल्पतामवेत्य भूयो विदितं प्रशंसति / परोक्षमेतत् त्वधिरुह्य साहसं प्रशंसतः पश्यत किं नु भेषजम् // 9 // परीक्षितुं जातु गुणौध ! शक्यते विशिष्य ते तर्कपथोद्धतो जनः / यदेव यस्याभिमतं तदेव संच्छिवाय मूद्वैरिति मोहितं जगत् // 10 // परस्परान्वर्थितया तु साधुभिः कृतानि शास्त्राण्यविरोधदर्शिभिः / विरोधशीलस्त्वबहुश्रुतो अनी म पश्यतीत्येतदपि प्रशस्यते // 11 // यदग्निसाध्य में 'तदम्भसा भवेत् प्रयोगयोग्येषु किमेव चेतसा। समेवरागोऽस्य विशेषती नु किं विमृश्यतां वादिषु साधुशौलसा // 12 // यथैव दृष्टं तपसा तथा कृतं न युक्तिवादोऽयमृरिदं वचः / सुबुद्धमेति विशेषतो नु किं प्रशंसति क्षेपकथा किलेतरा // 13 // कथं नु लोके न समानचक्षुषो यथा न पश्यन्ति वदन्ति तत्तथा / अहो न लोकस्य न चात्मनः क्षमां पुरातनैर्मानहतैरुपेक्षितम् // 14 // वृथा तृपैर्भर्तृमदः समुह्यते धिगस्तु धर्म कलिरेव दीप्यते / यदेतदेवं कृपणं जगच्छठेरितस्ततोऽनर्थमुखैविलुप्यते // 15 // यदा न शक्नोति विगृह्य भाषितुं परं च विद्वत्कृतशोभमीक्षितुम् / अथाप्तसंपादितगौरवो जनः परीक्षकक्षेपमुखो निवर्तते // 16 // त्वमेव लोकेऽद्य मनुष्य ! पण्डितः खलोऽयमन्यो गुरुवत्सलो जनः / स्मृतिं लभस्वारभ नेति शोभसे दृढश्रुतैरुच्छ्वसितुं म लभ्यते // 17 // परेऽद्य जातस्य किलाद्य युक्तिमत् पुरातनानां किल दोषवद्वचः / किमेव जाल्मैः कृतमित्युपेक्षितुं प्रपञ्चनायास्य जनस्य सेत्स्यति // 18 //