________________ . साधी द्वात्रिंशिका ... कोज्यो योग्यस्तव गुणनिधेर्वक्तुमुक्त्वा नयेन ! त्यक्ता लज्जा स्वहितगणनानिर्विशकं मयेवम् // 31 // इति निरूपमयोगसिद्धसेनः .. .. - प्रबलतमोरिपुनिर्जयेषु वीरः / दिशतु सुरपुरुस्तुतस्तुतो नः सततविशिष्टशिवाधिकारिधाम // 32 // .. 6. पष्ठी द्वात्रिंशिका। यदशिक्षितपण्डितो जनो विदुषामिच्छति वक्तुमग्रतः / .. न च तत्क्षणमेव शीर्यते जगतः किं प्रभवन्ति देवताः // 1 // पुरातनैर्या नियता व्यवस्थितिस्तत्रैव सा किं परिचिन्त्य सेत्स्यति / तथेति वक्तुं मृतरूढगौरवादहं न जातः प्रथयन्तु विद्विषः // 2 // न खल्विदं सर्वमचिन्त्यदारुणं विभाव्यते निम्नजलस्थलान्तरम् / अचिन्त्यमेतत् त्वभिगृह्य चिन्तयेच्छुचः परं नापरमन्यदा क्रिया // 3 // बहुप्रकाराः स्थितयः परस्परं विरोधरूक्षाः कथमाशु निश्चयः / विशेषसिद्धयायियमेव नेति वा पुरातनप्रेमजलस्य युज्यते // 4 // जनोऽयमन्यस्य मृतः पुरातनः पुरातनैरैव समो भविष्यति / पुरातनेष्वित्यनवस्थितेषु कः पुरातनोक्तान्यपरीक्ष्य रोचयेत् // 5 // विनिश्चयं नैति यथा यथाऽलसस्तथा तथा निश्चितवत् प्रसीदति / अवन्ध्यवाक्ये गुरवोऽहमल्पधीरिति व्यवस्यन् स्ववधाय धावति // 6 // मनुष्यवृत्तानि मनुष्यलक्षणैर्मनुष्यहेतोर्नियतानि तैः स्वयम् / अलब्धपाराण्यलसेषु कर्णवानगाधपाराणि कथं गृहीष्यति // 7 //