________________ श्रीसियोपदिवाकरप्रणीता दुरापमाप्तं यदचिन्त्यभूति ज्ञानं त्वया जन्म-जरान्तकर्तृ / / तेनासि लोकानभिभूय सर्वान् सर्वज्ञ ! लोकोत्तमतामुपेतः // 22 // [युगमम्] अन्ये जगत्संकथिका विदग्धाः सर्वज्ञवादान् प्रवदन्ति तीर्थ्याः / यथार्थनामा तु तवैव वीर ! सर्वज्ञता सत्यमिदं न रागः // 23 // रविः पयोदोदररुद्धरश्मिः प्रबुद्धहासैरनुमीयते ज्ञैः / भवानुदारातिशयप्रवादः प्रणेतृवीर्योच्छिखरप्रयत्नैः // 24 // नाथ ! त्वया देशितसत्पथस्थाः स्त्रोचेतसोऽप्याशु जयन्ति मोहम् / नैवान्यथा शीघ्रगतिर्यथा गां प्राची यियासुर्विपरीतयायी // 25 // अपेतगुह्यावचनीयशाठ्यं सत्त्वानुकम्पासकलप्रतिज्ञम् / शमाभिजातार्थमनर्थघाति सच्छासनं ते त्वमिवाप्रघृष्यम् // 26 // यथा परे लोकमुखप्रियाणि शास्त्राणि कृत्वा लघुतामुपेताः / शिष्यैरनुज्ञामलिनोपचारैर्वक्तृत्वदोषास्त्वयि नैव सन्ति // 27 // यथा भवांस्तेऽपि किलापवर्गमार्ग पुरस्कृत्य यथा प्रयाताः / स्वैरेव तु व्याकुलविप्रलापैरस्वादुनिष्ठेर्गमिता लघुत्वम् // 28 // रागात्मनां कोपपराजितानां मानोन्नतिस्वीकृतमानसानाम् / तमोजलानां स्मृतिशोभिनां च प्रत्येकभद्रान् विनयानवोचः // 29 // वाय्वम्बुशेवालकणाशिनोऽन्ये धर्मार्थमुग्राणि तपांसि तप्ताः / विया पुनः क्लेशचमूविनाशभक्तोऽपि धर्मो विजिताश ! दग्धः // 30 // नानाशस्त्रप्रगममहतीं रूपणीं तां नियच्छन् शक्रस्तावत् तव गुणकथाव्यापूनः खेदमेति / .