________________ 189 संपादयेन्नृपसभासु विगृह्य तानि येनाध्वना तमभिधातुमविन्नमस्तु // 1 // साध्यादृते विजयः सुलभः सदस्सु पार्श्वस्थितेषु हि जयश्च पराजयश्च / तस्मादविक्लवमनुल्वणसाधुकारं सामप्रवीणगणनासमयेषु योज्यम् // 2 // प्राक् तावदीश्वरमनः सदसश्च चक्षु मन्तव्यमात्मनि परत्र च किं प्रकारम् / यद्यात्मनो हि परिहासजयोत्तरं स्या दुक्तोपचारचतुरप्रतिभोऽन्यथा तु // 3 // सौम्यः प्रभुर्यदि विपक्षमुखाः सदस्याः / स्युस्तत् साधुरेव. गमयेत् परिभ्य शेषान् / तस्मिन् स्वभद्रचरितेऽप्युचितः प्रसादः . सत्कृत्य विग्रहवचःस्तिमितं निहन्यात् // 4 // आभाष्य भावमधुरार्पितया कृतास्तान् ... दृष्ट्याऽवसाद्य च निवर्तितया विनेयान् / ब्रूयात् प्रतीतमुखशब्दमुपस्थितार्थे नौच्चैर्न मन्दमभिभूय मनः परस्य // 5 // वादास्पदं प्रतिवचश्च यथोपनीत मारोप्य यः स्मृतिपथः प्रतिसंविधत्ते / " वैलक्ष्यविस्मृतमदान् द्विषतः स सूक्तैः / .. प्रत्यानयन् परिजनीकुरुते सदस्यान् // 6 //