________________ पञ्चमी द्वात्रिंशिका गतिमानथ चाक्रियः पुमान् कुरुते कर्म फलैने युज्यते / / फलभुक् च न चार्जनक्षमो विदितो यैर्विदितोऽसि तैर्मुने ! // 26 // स्वत एव भवः प्रवर्तते स्वत एव प्रविलीयतेऽपि च / / स्वत एव च मुच्यते भवादिति पश्यंस्त्वमिवाभवो भवेत् // 27 // असमीक्षितवाङ्महात्मसु प्रचयं नैति पुमान् महात्मसु / असमीक्ष्य च नाम भाषसे परमश्वासि गुरुमहात्मनाम् // 28 // भवबीजमनन्तमुज्झितं विमलज्ञानमनन्तमर्जितम् / न च हीनकलोऽसि नाधिकः समतां चाप्यनिवृत्त्य वर्तसे // 29 // सति चक्षुषि तत्प्रयोजनं न करोषीत्यभिशप्यते पुमान् / भवतस्त्वलमेष संस्तवो विदुषामन्यपथान्निवृत्तये // 30 // जननं च यथा महद् भयं तदभावश्च यथोत्तमोऽभयम् / विमृशन्तु विनीतचक्षुषो यदि पश्यन्त्यनुपास्य ! ते वचः // 31 // स्तवमहमभिधातुमीश्वरः क इव यथा तव वक्तुमीश्वरः / त्वयि तु भवसहस्त्रदुर्लभे परिचय एव यथा तथास्तु नः // 32 // - 5. पञ्चमी द्वात्रिंशिका / आराध्यसे त्वं न च नाम वीर ! स्तवैः सतां चैष हिताभ्युपायः / त्वन्नामसंकीर्तनपूतयत्नः सदभिर्गतं मार्गमनुप्रपत्स्ये // 1 // जाने यथाऽस्मद्विधविप्रलापः क्षेपः स्तवो वेति विचारणीयम् / भक्त्या स्वतन्त्रस्तु तथापि विद्वन् ! क्षमावकाशानुपपादयिष्ये // 2 // गम्भीरमम्भोनिधिनाऽचलैः स्थितं शरदिवा निर्मलमिष्टमिन्दुना / भुवा विशालं धुतिमद् विवस्वता बलप्रकर्षः पवनेन वर्ण्यते // 2 //