________________ 58. श्रीसिद्धसेनदिवाकरप्रणीता उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि सर्वदृष्टयः / .. न च तासु भवानुदीक्ष्यते प्रविभक्तासु सरित्स्विवोदधिः // 15 // वचनैर्विवदन्ति वादिनो भवता नोभयथापि तैर्भवान् / महता विपरीतदर्शनो वितथग्राहहतो विरुध्यते // 16 // स्वयमेव मनुष्यवृत्तयः कथमन्यान् गमयेयुरुन्नतिम् / अनुकूलहृतस्तु बालिशः स्खलति त्वय्यसमानचक्षुषि // 17 // .. अविकल्पसुखं सुखेष्विति ब्रुवते केवलमल्पमेधसः / त्वयि तत् तु यथार्थदर्शनात् सकलं वीर ! यथार्थदर्शनम् // 18 // न महत्यणुता न चाप्यणौ विभुता सम्भवतोह वादिनाम् / भवतस्तु तया च तन्न च प्रतिबोधावहितैर्विनिश्चितम् // 19 // सुख-दुःखविवेकसाधनं विहितं तीर्थमिदं जिन ! त्वया / न च सोऽस्त्यपयाति यस्तयोरथवाऽस्य प्रतिषिद्धशासनः // 20 // तमसश्च न केवलस्य च प्रतिसंसर्गमुशन्ति सूरयः / त्वयि सर्वकषायदोषले जिन ! कैवल्यमचिन्त्यमुद्गतम् // 21 // पुरुषस्य न केवलोदयः पशवश्चाप्यनिवृत्तकेवलाः / न च सत्यपि केवले प्रभुस्तव चिन्त्येयमचिन्त्यद् गतिः // 22 // वपुषो न बहिर्मनःक्रिया मनसो नापि बहिर्वपुःक्रिया / न च तेन पृथग न चैका द्विषतां तेऽयमदृष्टिगोचरः // 23 // न च दुःखमिदं स्वयं कृतं न परै!भयजं न चाकृतम् / नियतं च न चाक्षरात्मकं विदुषामित्युपपादितं त्वया // 24 // न परोऽस्ति न चापरस्त्वयि प्रतिबुद्धप्रतिभस्य कश्चन / न च तावविभज्य पश्यति प्रतिसंख्यानपदातिपूरुषः // 25 //