________________ . . .. चतुर्थी द्वात्रिंशिका निरवग्रहमुक्तमानसो विषयाशाकलुषस्मृतिर्जनः / त्वयि किं परितोषमेष्यति द्विरदः स्तम्भ इवाचिरग्रहः // 4 // हितयुक्तमनोरथोऽपि संस्त्वयि न प्रीतिमुपैति यत् पुमान् / अतिभूमिविदारदारुणं तदिदं मानकलेविजृम्भितम् // 5 // भवमूलहरामशक्नुवंस्तव विद्यामधिगन्तुमञ्जसा / भवतेऽयमसूयते जनो भिषजे मूर्ख इवेश्वरातुरः // 6 // न सदःसु वदनशिक्षितो लभते वक्तृविशेषगौरवम् / अनुपास्य गुरुं त्वया पुनर्जगदाचार्यकमेव निर्जितम् // 7 // वितथं कृपणः स्वगौरवाद् वदति स्वं च न तेऽस्ति किञ्चन / वितथानि सहस्रशश्च ते जगतश्चाप्रतिमोऽसि नायकः // 8 // भयमेव यदा न बुध्यते स कथं नाम भयाद् विमोक्ष्यते / अभये भयशङ्किनः परे यदयं त्वद्गुणभूतिमत्सरः // 9 // बलसाध्यमलं न दुर्बलः प्रतिषेधुं विनियोक्तुमेव वा / नियतेयमृर्व्यवस्थितिस्तव लोकस्य च नात्मवैरिणः // 10 // यदि येन सुखेन रज्यते कुरुते रक्तमनाश्च यत् स्वयम् / प्रविचिन्त्य जनस्तदाचरेत् प्रतिघातेन रमेत कस्त्वयि // 11 // अविकल्पमनःस्विदं वचस्तव येरेव मनःसु संभृतम् / समतीतविकल्पगोचराः सुखिनो नाथतयैव ते जनाः // 12 // परिवृद्धिमुपैति यद् यथा नियतोऽस्यापचयस्ततोऽन्यथा / तमसा परिचीयते भवस्त्वदनाथेषु कथं न वय॑ति // 13 // यदि नाम जिगीषयापि ते निपतेयुर्वचनेषु वादिनः / चिरसंगतमन्यसंशयं क्षिणुयुर्मानमनर्थसंचयम् // 11 //