________________ 558 श्रीसिमोनाधिकारीला अनादिभवहेतुरेष व च बध्यते नासकृत् त्वयाऽतिकुटिला गतिः कुशल ! कर्मणां दर्शिता // 29 // इहैव परिपाकमेति विहितं परे वा भवे भवोऽपि न भवेऽस्ति नैव न भवत्यसौ प्रागपि / क्वचिच्च कृतमन्यथा फलति सर्वथैवान्यथा ___अवन्ध्यमिह चोदितं सुकृतमष्टसङ्खयं त्वया // 30 // कृपाकृश इवोक्तवान् यदसि वीर ! घोरं तपो भवार्तिपरिविक्लवैस्तदिति शान्तये सेव्यसे / असारभवबुद्धयस्तु भवरोगशान्तौ परे निदानमिव दृष्टदोषमवधीरितास्त्वत्सुतैः // 31 // अविदित्तगुण ! स्तोतुं कः स्यात् प्रमेयगुणानपि त्रिभुवनगुरो ! किन्त्वेवाहं तव स्तवचापलः / न तु गणयितुं चान्यापातं नय स्वहितेषिणां त्वयि समुदितानन्दं चेतो मयेत्यनुवर्तितुम् // 32 // 4. चतुर्थी द्वात्रिंशिका। परिचिन्त्य जगत् तव श्रिया न विरोधस्तिमितेन चेतसा / परुषं प्रतिभाति मे वचस्त्वदृते वीर ! यतोऽयमुद्यमः // 1 // यदि वा कुशलोच्चलं मनो यदि वा दुःस्वनिपातकातरम् / न भवन्तमतीत्य रंस्यते गुणभक्तो हि न वञ्च्यते जनः // 2 // कुलिशेन सहस्रलोचनः सविता चांशुसहस्रलोचनः / न विदारयितुं यदीश्वरो जगतस्तद् भवता हतं तमः // 3 //