________________ तृतीया त्रिवि न चेन्द्रियगणं विहाय न तनुं न चैवान्यथा मतं तव निरञ्जनं विशति भव्यधीरं जनम् // 24 // चराचरविशेषितं जगदनेकदुःखान्तिक मनादिभवहेतुगूढदृढशृङ्खलाबन्धनम् / उदाहृतमिदं जिनेन्द्र ! सविपर्ययं यत् त्वया ह्यनेन भवशासनं तव सृता बुधाः शासनम् // 25 // क्रिया भवति कस्यचिन्न च विनिष्पतत्याश्रयात् स्वयं च गतिमान् व्रजत्यथ च हेतुमाकाङ्क्षते / गुणोऽपि गुणवच्छूितो न च तदन्तरं विद्यते त्वयैष भजनोजितः सुगद ! सिंहनादः कृतः // 26 // न जातु नरकं नरो व्रजति सागसोऽप्यन्तशः ___ न चापि नरकादपायमनवेत्य संवेद्यते / कदाचिदिह वैरमाप्य नरकोपगं मुच्यते . न चापि तव वीर ! वाक्यमतिपेशलं दोषलम् // 27 // * शयानमतिजागरूकमतिशायिनं जागरं . ससंज्ञमपि वीतसंज्ञमथ मोमुहं संज्ञिनम् / विकत्थनमभाषिणं वचनमूकमाभाषिणं दुरुक्तमिव मन्यते न तव यो मतं मन्यते // 28 // न मोहमतिवृत्य बन्ध उदितस्त्वया कर्मणां न चैकमपि बन्धनं प्रकृतिबन्धभावो महान् / '