________________ श्रीसिद्धसेनदिवाकरप्रणीता' .. ममाहमिति चैष यावदभिमानदाहज्वरः - कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः / यशःसुखपिपासितैरयमसावनोंत्तरैः . परैरपसदः कुतोऽपि कथमप्यपाकृष्यते // 19 // नं दुःख-सुखकल्पनामलिनमानसः सिद्धयति * न चागमसदादरो न च पदार्थभक्तोश्वरः / न शून्यघटितस्मृतिर्न शयनोदरस्थो न वा यथात्थ न ततः परं हितपरीक्षकैर्मन्यते // 20 // त्वमेव परमास्तिकः परमशून्यवादो भवान् ___त्वमुज्ज्वलविनिर्णयोऽप्यवचनीयवादः पुनः / परस्परविरुद्धतत्त्वसमयश्च सुश्लिष्टवाक् त्वमेव भगवन्नकम्प्यसुनयो यथा कस्तथा // 21 // न किञ्चदुपलक्ष्यते गगन-काष्ठयोरन्तरं न चापि न पृथक् तयोस्तदुपलक्षितं लक्षणम् / न चास्ति नियमो दिशां न च हितोचितैषा स्थिति स्त्वदोयमिव शासनं सुनयनिश्प्रकम्पाः स्थिताः // 22 // व्ययोऽपि पुनरुद्भवे भवति कर्मणां कारणं चयोऽपि च परं ललाम भवनिर्जराबोधने / करोति मलमर्जयन्नपि च निष्कृति कर्मणां __ न वा क्व तव तीर्णसङ्गनिकषे परीक्षा क्षमा // 23 // म कर्मफलगौरवाद् व्रजति नाप्यकर्मा क्वचित् न चापि मरणादपेत्य न च सर्वथैवामृतः /