________________ तृतीया द्वात्रिशिका अतीत्य न च चेतनाऽस्ति सुख-दुःखमोहोदया न युक्तमिव नाम ते जिन ! विगाहधीरं वचः // 13 // क्षमैव परुषं रुषं च न विजातिरभ्युन्नति ने नाम मतिमार्दवं निकृतिर्न नामार्जवम् / ऋतं वितथमेव गुप्तिरथ वा तपः किल्बिषं. विमुक्तिमपि बन्धमात्थ न च तत् तथा नान्यथा // 14 // न कश्चन करोति नापि परिभुज्यते केनचि न्न वेद्यमपि किञ्चिदस्ति न च न क्रियाभूतयः / भवन्न च भवान्तरं व्रजति कश्चिदभ्येति वा गतिं न च विना भवोऽस्त्यभव ! निश्चितं ते वचः // 15 // वियोजयति चासुभिर्न च वधेन संयुज्यते शिवं च न परोपमर्दपुरुषस्मृतेविद्यते / वधाय नयमभ्युपैति च परान्न निघ्नन्नपि त्वयाऽयमतिदुर्गमः प्रशमहेतुरुयोतितः // 16 // अपुण्यपथभीरवो वचनसत्य ! सत्यादराः पतन्त्यशिबमेव सत्यवचनार्थमूढा जनाः / परप्रियहितैषिणश्च बहुयातनापाणयः समन्तशिवसौष्ठवं तव न ये वचः संनताः // 17 // य एव रतिहेतवः शमफलास्त एवार्थतो न च प्रशमहेतुरेव मतिविभ्रमोत्पादकः / य एव च समुद्भवः स विलयः प्रतिस्वं च तो तवामृतमिदं वचः प्रतिहतैर्गदैः पीयते // 18 //