________________ श्रीसिद्धसेनदिवाकरप्रणीता कचिनियतिपक्षपातगुरु गम्यते ते वचः स्वभावनियताः प्रजाः समयतन्त्रवृत्ताः क्वचित् / स्वयंकृतभुजः क्वचित् परकृतोपभोगाः पुन नवा विशदवाद ! दोषमलिनोऽस्यहो ! विस्मयः॥८॥ परस्परविलक्षणाश्च न च नाम रूपादयः / क्रियापि च न तानतीत्य न च ते क्रियैकान्ततः। निरोधगतयस्त एव न च विक्रिया निश्चया . निमीलितविलोचनं जगदिदं त्वयोन्मीलितम् // 9 / / न कश्चिदपि जायते न च परत्वमापद्यते प्रतिक्षणनिरोधजन्मनियताश्च सर्वाः प्रजाः / य एव च समुद्भवः स विलयः प्रतिस्वं च तो तवापरमिदं मनःस्वलसैनिखातं वचः // 10 // पृथङ्न भवहेतुरस्ति न च भोक्तुरन्यो भवो प्रसूतिरपि जायमानमतितोऽस्ति नान्या न च / स्थितिर्गमनमुन्नतिर्व्यसनमिष्टयो बुद्धय स्तथेत्यनवबद्धपूर्वमपरैः प्रबद्धं त्वया // 11 // स्वभावनियतस्त्वया जिन ! न कश्चिदात्मोदित स्त्वमेव च परं ललाम परमार्थतत्त्वार्थिनाम् / असम्भवमनाशमेकममितक्षयस्थानिनं यथैनमवदस्तथैव परमात्मताऽस्यात्मनः // 12 // पृथड्न चयनादयो न च परस्परैकात्मका न बुद्धिरपि तानतील्य न च तद्गता बुद्धयः /