________________ तृतीया द्वात्रिंशिका wwwwwwwwwwwwwwwwwww अहो ! चिरमपाकृताः स्म शठवादिभिर्वादिभि स्त्वदाश्रयकृतादरास्तु वयमद्य वीर ! स्थिताः // 2 // अनादिनिधनः कचित् कचिदनादिरुच्छेदवान् / - प्रतिस्वमविशेषजन्मनिधनादिवृत्तः पुनः / भवव्यसनपञ्जरोऽयमुदितस्त्वया नो यथा तथाऽयमभवो भवश्च जिन ! गम्यते नान्यथा // 3 // जगत्यनुनयन् यथाभ्युदय-विक्रियावन्ति च स्वतन्त्रगुण-दोषसाम्यविषमाणि भोज्यान्यपि / क्रियाफलविचित्रता च नियता यथा भोगिनां .. तथा त्वमिदमुक्तवानिह यथा परे शेरते // 4 // अतीत्य नियतव्यथौ स्थिति-विनाशमिथ्यापथौ निसर्गशिवमात्थ मार्गमुदयाय यं मध्यमम् / ___ स एव दुरनुष्ठितोऽयमभिधानरूक्षाशया मधाविव महोरगों दशति दुर्गृहीतोद्धतः // 5 // जगद्धितमनोरथाः स्वयमनावृतप्रीतयः . कृतार्थनिवृत्तादराश्च विवृतोग्रदुःखे जने / गुणज्ञ ! परिमृग्यमाणलघवः स्वनीतेः परे त्वमेव तु यथार्थवादशुचिरर्थविद्भिर्वृतः // 6 // प्रवृत्त्यपनयक्षतं जगदशान्तजन्मव्यथं विरामलघुलक्षणस्त्वमकरोस्तदन्तःक्षणम् / जनानुमुखचाटवस्तरुणसत्कृतप्रातिभाः / .' प्रवृत्तिपरमार्थमेव परमार्थमाहुः परे // 7 //