________________ 582 श्रीसिद्धसेनदिवाकरप्रणीता गुणोपमानं न तवात्र किञ्चिदमेयमाहात्म्य ! समञ्जसं यत् / समेन हि स्यादुपमाभिधानं न्यूनोऽपि ते नास्ति कुतः समानः॥४॥ युग्मम् अमोह ! यत्तां वसुधावधूं यन्मानानुरोधेन पितुश्चकर्ष / ज्ञानत्रयोन्मीलितसत्पथोऽपि तत्कारणं कोऽच्युत ! मन्तुमीशः ? // 5 // अनेकजन्मान्तरभग्नमानः ... स्मरो यशोदाप्रिय ! यत् पुरस्ते / चचार निहींकशरस्तमथै त्वमेव विद्याः सुनयज्ञ ! कोऽन्यः // 6 // अबुद्धखेदोपनतैरनेकैरसाध्यरागाविषमोपचारैः / नरेश्वरैरात्महितानुरक्तैश्चूडामणिव्यापृतपादरेणुः // 7 // स्वयं प्रभूतैनिधिभिनिवृत्तः प्रत्येकमम्भोनिचयप्रसूतैः / आशासनं सर्वजनोपभोग्यैर्धनेश्वरः प्रीतिकरः प्रजानाम् // 8 // दिक्पालभुक्त्या वसुधां नियच्छन् प्रबोधितो नाम सुरैः समायः / लक्ष्म्या निसर्गोचितसङ्गतायाः सितातपत्रप्रणयं व्यनौत्सीत् // 9 // अपूर्वशोकोपनतक्लमानि नेत्रोदकक्लिन्नविशेषकाणि / विविक्तशोभान्यबलाननानि विलापदाक्षिण्यपरायण्णानि // 10 // मुग्धोन्मुखाक्षाण्युपदिष्टवाक्यसंदिग्धजल्पानि पुरःसराणि / बालानि मार्गाचरणक्रियाणि प्रलम्बवस्त्रान्तविकर्षणानि // 11 //