________________ द्वितीया द्वात्रिंशिका कुर्वन् न मारमुपयाति न चाप्यकुर्वन् नास्यात्मनः शिवमहद्धर्यबलं निधानम् / वेदन तमेवमवसादितवेदमत्त्वाद् भूयो न दुःखगहनेषु वनेषु शेते // 24 // कर्ता न कर्मफलभुग् न च कर्मनाशः कञन्तरेऽपि च न कर्मफलोदयोऽस्ति / कर्ता च कर्मफलमेव स चाप्यनाद्य स्त्वद्वाक्यनीतिरियमप्रगताऽन्यतीर्थैः // 25 // भीरोः सतस्तव कथं त्वमरेश्वरोऽसौ __ वोरोऽयमित्यनवधाय चकार नाम / मृत्योर्न हस्तपथमेत्य बिभेति वीर स्त्वं तस्य गोचरमपि व्यतियाय लीनः // 26 // नादित्यगर्वजमहस्तव किञ्चदस्ति .. नापि क्षपा शशिमयूखशुचिप्रहासा। रात्रिंदिनान्यथ च पश्यसि तुल्यकालं कालत्रयोत्पथगतोऽप्यनतीतकालः // 27 // चन्द्रांशवः कमलगर्भविषक्तमुग्धाः सूर्योऽप्यजातकिरणः कुमुदोदरेषु / वीर ! त्वमेव तु जगत्यसपत्नवीर___. स्त्रैलोक्यभूतचरिताप्रतिघप्रकाशः // 28 // यश्चाम्बुदोदरनिरङ्कुशदीप्तिरर्क स्तारापतिश्च कुमुदद्युतिगौरपादः /