________________ श्रीसिद्धसेनदिवाकरप्रणीता कार मुक्तः स्वयं कृतभवश्च परार्थशूरः त्वच्छासनप्रतिहतेष्विह मोहराज्यम् // 18 // पापं न वाञ्छति जनो न च वेत्ति पापं / पुण्योन्मुखश्च न च पुण्यपथप्रतीतः / / निःसंशयं स्फुटहिताहितनिर्णयस्तु त्वं पापवत् सुगत ! पुण्यमपि व्यधाक्षीः / / 19 / / सत्कार-लाभपरिपक्तिशठेवचोभि दुःखद्विषं जनमनुप्रविशन्ति तीर्थ्याः / लोकप्रपञ्चविपरीतमधीरदुर्ग श्रेयःपथं त्वमविदूरसुखं चकर्ष // 20 // दैत्याङ्गनातिलकनिष्ठुरवज्रदीप्तौ . शके सुरोधमुकुटार्चितपादपीठे / तिर्यक्षु च स्वकृतकर्मफलेश्वरेषु तद्वाक्यपूतमनसां न विकल्पखेदः // 21 // यैरेव हेतुभिरनिश्चयवत्सलानां सत्त्वेष्वनर्थविदुषां करुणापदेशः / / तैरेव ते जिन ! वचस्स्वपरोक्षतत्त्वा माध्यस्थ्यशुद्धमनसः शिवमाप्नुवन्ति // 22 // एकान्तनिर्गुण ! भवन्तमुपेत्य सन्तो ___यत्नार्जितानपि गुणाञ्जहति क्षणेन / क्लोबादरस्त्वयि पुनर्व्यसनोल्बणानि भुङ्क्ते चिरं गुणफलानि हि तापनष्टः // 23 //