________________ द्वितोया द्वात्रिंशिका 569 सद्धर्मबीजवपनाघकौशलस्य - यल्लोकबान्धव ! तवापि खिलान्यभूवन् / तन्नाद्भुतं खगकुलेष्विह तामसेषु सूयांशवो मधुकरीचरणावदाताः // 13 // त्वच्छासनाधिगममूढदिशां नराणा माशास्महेऽपरुषमप्यनुपन्नमेव / उन्मार्गयायिषु हि शीघ्रगतिर्य एव ___नश्यत्यसौ लघुतरं न मृदु प्रयातः // 14 // तिष्ठन्तु तावदतिसूक्ष्मगभीरगाधाः संसारसंस्थितिभिदः श्रुतवाक्यमुद्राः / पर्याप्तमेकमुपपत्तिसचेतनस्य रागार्चिषः शमयितुं तव रूपमेव // 15 // वैराग्यकाहलमुखा विषयस्पृहान्धा ज्ञातुं स्वमप्यनधिपा हृदयप्रचारम् / नातः परं भव इति व्यसनोपकण्ठा विश्वासयन्त्युपनतांस्त्वयि मूढसंज्ञाः // 16 // सत्त्वोपघातनिरनुग्रहराक्षसानि वक्तृप्रमाणरचितान्यहितानि पीत्वा / अद्वारकं जिन ! तमस्तमसो विशन्ति . येषां न भान्ति तव वाग्द्युतयो मनस्सु // 17 // दग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभोरुनिष्ठम् /