________________ श्रीसिद्धसेनदिवाकरप्रणीता ते पालयन्ति समुपाश्रितजीवितानि त्वामाश्रितस्य हि कुतश्विरमेष भावः // 7 // चित्रं किमत्र यदि निर्वचनं विवादा ___`न प्राप्नुवन्ति ननु शास्तरि युक्तमेतत् / उक्तं च नाम भवता बहु नैकमार्ग निर्विग्रहं च किमतः परमद्भुतं स्यात् // 8 // मां प्रत्यसौ न मनुजप्रकृतिर्जनोऽभू च्छके च नातिगुणदोषविनिश्चयज्ञः / यस्त्वां जिन ! त्रिभुवनातिशयं समीक्ष्य नोन्मादमाप न भवज्वरमुन्ममाथ // 9 // अन्येऽपि मोहविजयाय निपीडय कक्षा मभ्युत्थितांस्त्वयि विरूढसमानमानाः / अप्राप्य ते तव गतिं कृपणावसाना . स्त्वामेव वीर ! शरणं ययुरुद्वहन्तः // 10 // तावद् वितर्करचनापटुभिर्वचोभि र्मेधाविनः कृतमिति स्मयमुद्वहन्ति / यावन्न ते जिन ! वचःस्वभिचापलास्ते सिंहासने हरिणबालकवत् स्खलन्ति // 11 // त्वद्भाषितान्यविनयस्मितकुञ्चिताक्षाः स्वग्राहरक्तमनसः परिभूय बालाः / नैवोद्भवन्ति तमसः स्मरणीयसौख्याः पाताललोनशिखरा इव लोध्रवृक्षाः // 12 //