________________ द्वितीया द्वात्रिंशिका aaaaaaw दुःखार्दितेषु न च नाम घृणामुखोऽसि न प्रार्थितार्थसखिषूपनतप्रसादः।। न श्रेयसा च न युनक्षि हितानुरक्तान् नाथ ! प्रवृत्त्यतिशयस्त्वदनिर्गतोऽयम् // 2 // कृत्वा नवं सुरवधूभयरोमहर्षे दैत्याधिपः शतमुखभ्रकुटीवितानः / त्वत्पादशान्तिगृहसंश्रयलब्धचेता लज्जातर्नुधुति हरेः कुलिशं चकार // 3 // पीतामृतेष्वपि महेन्द्रपुरस्सरेषु मृत्युः स्वतन्त्रसुखदुर्ललितः सुरेषु / वाक्यामृतं तव पुनर्विधिनोपयुज्य शूराभिमानमवशस्य पिबन्ति मृत्योः // 4 // अप्येव नाम दहनक्षतमूलजाला लक्ष्मीकटाक्षसुभगास्तरवः पुनः स्युः / न त्वेव नाथ ! जननक्लममूलपादा- स्त्वदर्शनानलहताः पुनरुद्भवन्ति // 5 // उत्त्रासयन्ति पुरुषं भवतो वासि विश्वासयन्ति परवादिसुभाषितानि / - दुःखं यथैव हि भवानवदत् तथा तत् तत्सम्भवे च मतिमान् किमिवाभयः स्यात् ! // 6 // स्थाने जनस्य परवादिषु नाथबद्धि द्वेषश्च यस्त्वयि गुणप्रणतो हि लोकः / .