________________ प्रथमा द्वात्रिंशिका यदा न संसारविकारसंस्थितिर्विगाह्यते त्वत्प्रतिधातनोन्मुखैः / शटैस्तदा सज्जनवल्लभोत्सवो न कश्चिदस्तीत्यभयैः प्रबोधितः // 16 // स्वपक्ष एवं प्रतिबद्धमत्सरा यथान्यशिष्याः स्वरुचिप्रलापिनः / निरुक्तसूत्रस्य यथार्थवादिनो न तत् तथा यत् तव कोऽत्र विस्मयः ? // 17 // नयप्रसङ्गापरिमेयविस्तरैरनेकभङ्गाभिगमार्थपेशलैः / अकृत्रिमस्वादुपदैर्जनं जनं जिनेन्द्र ! साक्षादिव पासि भाषितैः॥१८॥ विलक्षणानामविलक्षणा सती त्वदीयमाहात्म्यविशेषसंभलो / मनांसि वाचामपि मोहपिच्छलान्युपेत्य तेऽत्यद्भुत ! भाति भारती // असत् सदेवेति परस्परद्विषः प्रवादिनः कारणकार्यतर्किणः / तुदन्ति यान् वाग्विषकण्टकान तैर्भवाननेकान्तशिवोक्तिरदितः // 20 // निसर्गनित्यक्षणिकार्थवादिनस्तथा महत्-सूक्ष्मशरीरदर्शिनः / यथा न सम्यङ्मतयस्तथा मुने ! भवाननेकान्त विनीतमुक्तवान् // 21 // मुखं जगद्धर्मविविक्ततां परे वदन्ति तेष्वेव च यान्ति गौरवम् / त्वया तु येनैव मुखेन भाषितं तथैव ते वीर ! गतं सुतैरपि // 22 // तपोभिरेकान्तशरीरपीडनै तानुबन्धैः श्रुतसंप्रदापि वा / स्वदीयवाक्यप्रतिबोधपेल्वैरवाप्यते नैव शिवं चिरादपि // 23 // न रागनिर्भर्सनयन्त्रमीदृशं त्वदन्यदृग्भिश्चलितं विगाहितम् / यथेयमन्तःकरणोपयुक्ता बहिश्च चित्रं कलिलासनं तपः // 24 // विरागहेतुप्रभवं न चेत् सुखं न नाम तत् किञ्चिदिति स्थिता वयम् / स चेन्निमित्तं स्फुटमेव नास्ति न त्वदन्यतः स त्वयि येन केवलः //