________________ 564 श्रीसिद्धसेनदिवाकरप्रणीता वदन्ति यानेव गुणान्धचेतसः समेत्य दोषान् किल ते स्वविद्विषः / त एव विज्ञानपथागतः सतां त्वदीयसूक्तप्रतिपत्तिहेतवः // 6 // कृपां वहन्तः कृपणेषु जन्तुषु स्वमांसदानेष्वपि मुक्तचेतसः / . त्वदीयमप्राप्य कृतार्थकौशलं स्वतः कृपां संजनयन्त्यमेधसः // 7 // जनोऽयमन्यः करुणात्मकैरपि स्वनिष्ठितक्लेशविनाशकाहलैः / विकुत्सयंस्त्वद्वचनामृतौषधं न शान्तिमाप्नोति भवार्तिविक्लवः // 8 // प्रपञ्चितक्षुल्लकतर्कशासनैः परप्रणेयाल्पमतिर्भवासनैः / त्वदीयसन्मार्गविलोमचेष्टितः कथं नु न स्यात् सुचिरं जनोऽजनः // 9 // परस्परं क्षुद्रजनः प्रतीपगानिहैव दण्डेन युनक्ति वा नवा / निरागसस्त्वत्प्रतिकूलवादिनो दहन्त्यमुत्रेह च जोल्मवादिनः // 10 // अविधया चेद् युगपद्विलक्षणं क्षणादि कृत्स्नं न विलोक्यते जगत् / ध्रुवं भवद्वाक्यविलोमदुर्नयांश्चिरानुगांस्तानुपगृह्य शेरते // 11 // समृद्धपत्रा अपि सच्छिखण्डिनो यथा न गच्छन्ति गतं गुरुत्मतः / सुनिश्चितज्ञेयविनिश्चयास्तथा न ते मतं यातुमलं प्रवादिनः // 12 // य एष षड्जीवनिकायविस्तरः परैरनालीढपथस्त्वयोदितः / अनेन सर्वज्ञपरीक्षणक्षमास्त्वयि प्रसादोदयसोत्सवाः स्थिताः // 13 // वपुः स्वभावस्थमरक्तशोणितं परानुकम्पासफलं च भाषितम् / न यस्य सर्वज्ञविनिश्चयं त्वयि द्वयं करोत्येतदसौ न मानुषः // 14 // अलब्धनिष्ठाः प्रसमिद्धचेतसस्तव प्रशिष्याः प्रथयन्ति यद् यशः / न तावदप्येकसमूहसंहताः प्रकाशयेयुः परवादिपार्थिवाः // 15 //