________________ 560 दिवाकर कृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिशिंका / AAA ___ उक्तस्तुतिं विशिष्टफलदायकतया स्तौति· इत्थं ये परमात्मरूपमनिशं श्रीवर्धमानं जिनं . वन्दन्ते परमार्हतास्त्रिभुवने शान्तं परं दैवतम् / तेषां सप्तभयः क सन्ति दलितं दुःखं चतुर्धाऽपि तै मुक्तैर्यत् सुगुणानुपेत्य वृणते ताश्चक्रिशक्रश्रियः // 33 // इत्थमिति / इत्थम् उपदर्शितप्रकारेण, ये परमाहताः परमजिनभक्ताः, अनिश सर्वदा, त्रिभुवने लोकत्रयेऽपि, परमात्मरूपं प्रकृष्टज्ञान-दर्शन-चारित्रालिङ्गितात्मस्वरूपम्, श्रीवर्द्धमानं श्रिया मुक्तिलक्ष्म्याऽऽलिङ्गितं वर्द्धमानाभिधमपश्चिमतीर्थङ्करं, जिनं रागद्वेषजेतारे, शान्तं शान्तिमयं, परम् उत्कृष्टं, दैवतं देवानामपि देवम्, वन्दन्ते प्रणमन्ति, प्रकृतस्तुतिपाठपुररस्सर तेषां भगवद्वन्दनपरायणानामाहतानां, सप्तभयः व सन्ति न भवन्त्येव सप्तभीतयः, चतुर्धापि चतुःप्रकारमपि, दुःख दलितं तैः आर्हतैः, मुक्तैः मुक्तिमधिगतैः यत् यस्मात् कारणात्, सुगुणान् तान् , उपेत्य समीपमागत्य, चक्रिशक्रश्रियः चक्रिण चक्रवतिनः शक्रस्य इन्द्रस्य च, श्रियः लक्ष्म्यः, वृण्वते वरणं कुर्वन्ति // 33 // इति तपोगच्छाधिपति-शासनसम्राट्-सर्वतन्त्रस्वतन्त्र जगद्गुरु-श्रोविजयनेमिसूरीश्वरपट्टालङ्करेण व्याकरवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालङ्कृतेन विजयलावण्यसूरिणा विरचिता किरणावलीनाम्नी व्याख्या समाप्ता।