________________ व्याख्याकर्तुः प्रशस्तिः। व्याख्यानन्तरनिश्चितार्थविषयां बुद्धिवशं कुर्वति व्याख्येयं नवकल्पनाविधुरिता मान्या प्रमाणं कथम् / नैवं चोद्यमिह प्रभा स्व-परयोनिर्णीतिरूपा मता तस्या नावगतार्थता प्रमितितोच्छेदे पटिष्ठा यतः // 1 // प्रामाण्यं स्मरणेऽनुभूतविषये स्याद्वादिभिः स्वीकृतं संवादस्तु परस्परं स्वविषये यट्टीकयोः साम्प्रतम् / तस्मादेव जिनस्तुतौ लघुतमा भक्त्येयमायोजिता विज्ञानां मुदमादधातु सुचिरं सद्भावनाभाविता // 2 // वादीन्द्रः सिद्धसेनो निखिलमपि मतं भिन्नमार्गप्रयाणं ज्ञात्वा हार्द तु तत्तन्मतसमनुगतं कतुकामः स्फुटार्थम् / भक्ति देवे जिनेन्द्रे भवनिधितरणोपायभूतां सुलोका मारूढो गूढभावस्तुतिचयमकरोदाप्ततीर्थङ्कराणाम् // 3 // नव्या द्वात्रिंशिकाख्या स्तुतिरिति विमलाऽनेकधाचित्रभावा . व्याख्याभावान्न शक्या मितिनयविकलैआतुमित्थं कलय्य / व्याख्यां लावण्यसूरिः मरलवचनतस्तत्र कृत्वा सुभक्त्या सव्याख्यायाः स्तुतेरप्यनु ननु कृतवान् वृत्तिमेतां मितिम् // 4 धीमन्तो विबुधालिसेवितपदाः श्रीनेमिसूरीश्वरा स्तीर्थोद्धारपरायणा गुरुवराः स्मृत्या हृदिस्थाः सदा / स्वीकुर्वन्तु समर्पितां स्तुतिगतां व्याख्यामिमां नूतनां ... लावण्येन सुभक्तितो विनयिना कृत्वा मितां सूरिणा // 5 //