SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकालता एकविंशतितमी वर्धमानद्वात्रिशिका / 559 भयस्याद्वादलक्षणा महज्ञा तया महेन्द्रः महानिन्द्रः परमैश्वर्यसम्पन्नः स्वर्गाधिपप्रसिद्धन्द्रतो विशिष्टः, महाशान्तिमर्त्ता परमशान्तिस्वामी, महासिद्धसेनः अष्टविधकर्मोन्मूलकत्वेनाविभूतसिद्धपर्यायानां सिद्धानां सेनासन्ततिर्यस्य स तथा, अथवा सिद्धसेनसंज्ञकः प्रकृत स्तुतिकर्ता महान् भक्तेषु महनीयगुणशाली यस्य स महासिद्धसेनः, महाज्ञानवान् लोकालोकप्रकाशककेवलज्ञानवान्, पावनीमूत्तिः स्वदर्शनपूजनादिना पवित्रकी मूर्ति: प्रतिमा यस्य स तथा, अर्हन् अन्यसत्वानां पूज्येभ्योऽपि मनुजेन्द्र-देवेन्द्रादिभ्य; पूजामहतीति अर्हन्, उक्तनामनिकर प्रतिपाद्यो यः, स एको जिनेन्द्रः परात्मा मे गतिरित्यर्थः // 31 // महाब्रह्मयोनित्वाद्यनन्यसाधारणधमैः भगवन्तं जिनेन्द्रं महावीर स्तौतिमहाब्रह्मयोनिमहासत्त्वमूर्ति महाहंसराजो महादेवदेवः। महामोहजेता महावीरनेता स एकः परात्मा गतिर्मे जिनेन्द्रः // 32 // महाब्रह्मयोनिरिति ! महाब्रह्मयोनिः सच्चिदानन्दस्वरूपं धर्मपटलानावृतं यन्मुक्तयवस्थायां भवति तन्महाब्रह्म तस्य योनिः कारणं महाब्रह्मणः सर्वज्ञसत्त्वेऽपि निरावणतयाऽऽविर्भावो मुक्तयवस्थायामेवेति तदात्मकपर्यायो जिनेन्द्रात्मरूपद्रव्यस्यैवेति भवति जिनेन्द्रो महाब्रह्मयोनिः, महासत्त्वमूर्तिः महासत्त्वं महाधैयं तस्य मूर्तिः प्रकृतिः भगवानेव महासत्त्वरूपेण परिणतः, महाहंसराजः महाहंसश्चैतन्य यथा हंसो नीरक्षीरविवेकं करोति तथा चैतन्यमपि तेन राजते शोभत इति महाहंसराज:, महादेवदेवः कर्मोपाधिसहिताश्चतुर्विधदेवा महादेवा तेषामपि देवः पूजनीयत्वान्महादेवदेवः, महामोहजेता महामोहस्य काम-क्रोधादिभावशत्रोर्जेता जयनशीलः; महावीरनेता कर्मलक्षणं प्रबलं शत्रु समूलमुच्छेदितवन्तो ज्ञानदर्शनादयस्सुभटा महावीरास्तेषां नेता स्वामी महावीरनेता, स एकः परात्मा जिनेन्द्रो मे गतिरित्यर्थः // 32 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy