SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ 558 दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका। दयायष्टविधपुष्पकरणका परायणपुरुषधौरेयमताष्टविधकर्मक्षयाविर्भूतपरमा. नन्दावा तलक्षणमोक्षप्रदातृत्वेन भगवन्तं जिनेन्द्रं स्तौति- . दया-सूनृतास्तेय-निःसङ्गमुद्रा- . तपो-ज्ञान-शीलगुरूपास्तिमुख्यैः / मुमैरष्टभिर्योऽय॑ते धाम्नि धन्यैः स एकः परात्मा गति जिनेन्द्रः // 30 // दयेति / दया-सूनृतास्तेय निःसङ्गमुद्रा-तपो-ज्ञानशोलैः दया परदुःख. प्रहाणेच्छा तया यद्दरिद्रजनप्राणरक्षार्थं भूरिप्रदानं क्रियते तदपि दयाकार्यत्वाद् दयेत्यभिधीयते सूनृत सत्यभाषित्वं, अस्तेयं परवित्तानपहरणं, निःसङ्गमुद्रा अपरिप्रहत्वं, तपः तपस्या, ज्ञानं सुतत्त्वावबोधनम्, शीलं ब्रह्मचर्यत्वं, गुरूपास्तिमुख्यः गुरूपास्तिः गुरूसेवा मुख्या एक प्रधानः येषु ते गुरूपास्तिमुख्याः तैः दयादिशीलान्तैः, सुमैः पुष्पैः, अष्टभिः अष्टसंख्यकैः, धाम्नि ज्ञानमयज्योतिषि, धन्यैः महात्मभिः, यः जिनेन्द्रः, अय॑ते पूज्यते तथा विधपूजाकर्तृणां धन्यता तु ठक्ताष्ट. पुष्पकरकजिनेन्द्रपूजातोऽष्टविधकर्मक्षयतोऽनन्तरं मुक्त्यङ्गनालिङ्गितत्वम्, स एकः परात्मा जिनेन्द्रो मे गतिरित्यर्थः // 30 // अन्वर्थगुणविशेषप्रवृत्तिनिमित्तकनामप्रतिपाद्यत्वेन जिनेन्द्रं स्तौतिमहाच्चिर्धनेशो महाज्ञामहेन्द्रो महाशान्तिभर्ती महासिद्धसेनः / महाज्ञानवान् पाबनीमूतिरहन् ___ स एकः परात्मा गतिर्मे जिनेन्द्रः // 31 // महाचिरिति / महाचिः महत् सकललोकालोकप्रकाशकत्वेन चन्द्रसूर्यादिज्योतिर्यो विशिष्टमर्चिर्कोतिर्यस्य स महाञ्चिः परमज्योतिस्स्वरूपः, धनेशः कुबेरः सुवर्ण-रजतादिबाह्यधनानामीशः स्वामी, अयं तु सम्यग्ज्ञान-दर्शनात्मकान्तरङ्गरत्नत्रयात्मकधनस्वामी, महाशमिहेन्द्रः महती भाशा कर्तव्याकतव्याहिताहितोपदेश
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy