________________ दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / 557 अर्धनाराचम् , वज्र कीलिका, ऋषभः पट्टः, नाराचो मर्कट बन्धः, प्रथमं त्रितययुक्तं द्वितीयसंहनने पट्टो नास्ति, तृतीये वज्रर्षभौ न स्तः, ततो वज्रर्षभमर्धवज्रर्षभ, नाराचं चेत्यनेन चत्वारो भेदाः प्रतिपाद्या उत्तमसंहननवाच्याः, उत्तमसंहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्य प्रतिपादनार्थ त्स्योत्तमसंहननस्य एकाग्रचिन्तानिरोधो ध्यानम् . अग्रम् आलम्बनं, एकं च तदनं चेत्येकाग्रम् एकालम्बनमित्यर्थः, एकस्मिन्नालम्बने चिन्तानिरोधः, चलं चित्तमेव चिन्ता; तन्निरोधस्तस्यैकत्रावस्थानमन्यत्राप्रचारो निरोधः, अतो निश्चलं स्थिर-मध्यावसानमेकावलम्बनं छद्मस्थविषयं ध्यानम् , केलिनां पुनर्वाक्-काययोगनिरोध एव ध्यानम् , अभावान्मनसः न ह्यवाप्तकेवलस्य मनोव्यापारः समस्ति सकलकरणग्रामनिरपेक्षत्वादिति, तद्युक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणायेन चतुर्विधेन वा युक्तस्य सम्पन्नस्य, एकाग्रचिन्तानिरोधः, चशब्दाद्वाक्-कायनिरोधश्च ध्यानम् अत्र च ध्याता संसात्मिा ध्यानस्वरूपमेकाग्रचिन्तानिरोधः, ध्याति ध्यानमिति भावसाधनः; कालतो मुहूर्त्तमात्र, चतुःप्रकारमा दिभेदेन ध्येयप्रकारास्त्वमनोविषयसम्प्रयोगादयः शोकाक्रन्दनविलपनादिलक्षणमातम् , उत्सन्नबद्धादिलक्षणं रौद्रम् , जिनप्रणीतभावश्रद्धानादिलिङ्गं धर्म्यम् , अबाधासम्मोहादिलक्षणं शुक्लम् , फलं पुनस्तियङ्-नरक-देवगत्यादि मोक्षाख्यमिति क्रमेण, उत्तम संहननपदार्थलभ्यो ध्याता अभिहितः, ध्यानस्वरूपं भावसाधनता च विज्ञेया" इति आर्त-रौद्र-धर्म्य-शुक्लभेदेन चतुर्विधानां ध्यानानां मध्ये द्वे आत-रौद्रध्याने संसारहेतू , द्वे च धर्म्य-शुक्ले मोक्षहेतू , एवंस्थितौ शुभध्यानपदेन मोक्षहेतु धय॑ध्यानं ग्राह्य, शुभध्यानान्येव नीराणि जलानि शुभध्याननीराणि तैः शुभध्याननीरैः, शौचं शुचित्वं पवित्रत्वमिति यावत् , उरीकृत्य अभ्युपगम्य शुभध्याननीरप्रक्षलितोऽहमतः शुचिरित्येवमङ्गीकृत्य, सदाचारादिव्यांशुकैः सम्यग्ज्ञान-दर्शन-चारित्राण्येव सदाचाराणि तान्येव दिव्यांशुकानि प्रधानप्रावरणधौतवस्त्राणि तैः, भूषिताङ्गाः भूषितं शोभितम् अङ्गं शरीरं येषां ते तथा, * एवंभूता बुधाः, देहगेहे शरीररूपगृहे, यं जिनेन्द्र अर्हन्ति पूजयन्ति, स एकः परात्मा जिनेन्द्रो मे गतिरित्यर्थः // 29 //