SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 556 दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / "पक्षपातो न मे वीरे न द्वेषः कपिलादिषु / . .. युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः // 19 // " इति / यथा-'आग्रही बत निनीषति युक्ति तत्र यत्र मतिरस्य निर्विष्टा / ' पक्षपातरहितस्य तु युक्तियत्र तत्र मतिरेव विनिवेशम् इति, एवम्भूतैः यैः पुरुषैः, यदाज्ञा पराऽभाजि परा उत्कृष्टा यस्य तीर्थङ्करस्याज्ञा अभाजि असेवि, कीदृशी आज्ञेत्याकाङ्क्षायामाह-विहायाश्रवं कायिक-वाचिक-मानसिकयोगलक्षणमाश्रवं त्यक्त्वा, संवरं संश्रयैव संवरं योगनिरोधलक्षणं संवरमेव संश्रयः आश्रयः इत्येवंरूपा, तैः तीर्थकराज्ञा सेवकपुरुषैः, स्वकः स्वकीयः, भवः जन्ममोक्षो वा, वाकार एवकारार्थकः मोक्ष एव, अकारि जन्मावस्थायामाणि ते पुरुषा युक्ता एव एवकारो निश्चयार्थकः जीवनमुक्ता एव ते इत्यत्र न संदेहः न स एकः परात्मा जिनेन्द्रो मे गतरित्यर्थः / 28! / शुभध्यान-सदाचारपरायण बुधकर्तृकशरीरान्तर्गतार्चाकर्मत्वेन भगवन्तं तीर्थकरं महावीरं स्तौति शुभध्याननीरैरुरीकृत्य शौचं सदाचारदिव्यांशुकैर्भूषिताङ्गाः। बुधाः केचिदर्हन्ति यं देहगेहे स एकः परात्मा गति, जिनेन्द्रः // 29 // शुभध्याननीरैरिति / केचिद् बुधाः सम्यग-ज्ञान-दर्शन-चारित्रलक्षणमोक्षमार्ग सञ्चारपरायणा मुनिप्रवराः ये बहिःस्थितचैत्यगजिनप्रतिमा परिशुद्धत ल. जल-गन्ध-पुष्प-धू-नैवेद्यादिभिः स्वयं वाद्यशौचजनकोदकस्नान स्वच्छवस्त्रपरिधानादिपुरस्सरं पूजयितुमनधिकारिणः ते, शुभध्याननीरैः 'उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम्' इति तत्त्वार्थसूत्रं, तम्य भाष्यम्-'उत्तमसंहननं वजर्षभ नाराचं, वज्रनाराचं नाराचम्, अर्धनाराचं च तयुक्तस्यैका गनिरोधश्च ध्यानम्" एतवृत्तिश्च - "उत्तम प्रकृष्टं संहननं अस्थनां बन्धविशेषः, उत्तम संहननमस्येयुत्तमसंहननम् तदुत्तमसंहननं चतुर्विधं वज्रर्षभनाराचं, वज्रनाराचं, नाराचम्,
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy