________________ won दिवाकरकृता किरणावलोकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / 555 यदाज्ञानिलीना ययुर्जन्मपारं स एकः परात्मा गतिमें जिनेन्द्रः // 27 // नवेति / वैराग्यतत्त्वे वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपधिष्वनभिष्वङ्गः, ईदृशं वैराग्यं शरीरादिष्वशुचित्वानित्यत्वादिज्ञानाभ्यासतो भवतीति, ज्ञानगर्भ तच्च पुनर्जन्म-मरणप्रतिपन्थि भवतीत्युपादेयम् , विरागो रागरहितस्तस्य भावो वैराग्य रागरहितत्वं, एतच्च यदा स्त्री-भ्रातृ-पुत्र-किङ्करादिभिः सह कलहादितो दुःखादितो यदा जायते तदा दुःखगर्भ तत्पुनरुत्तरकालं स्त्री-भातृ-पुत्रादीनामानुकूल्यादितः पुनः रागादिप्रादुर्भावे क्षीयत इति नोपादेयम् , एवं कस्मिंश्चिद् विषये मुग्धः सन् तद्विषयाप्राप्तौ मोहादनीशतां प्राप्य शोचन् निर्विण्णो भवति तदुत्पन्नं वैराग्यं मोहगर्भ तत्कञ्चित् कालमेवावतिष्ठते समोहितमोहविषयासादने सति निवर्तत इति नोपादेयतामञ्चतीत्याशयेनाह-यदाज्ञानिलीना यस्य जिनेन्द्रस्याज्ञायां व्यवस्थिताः पुरुषाः, जन्मपारं उत्तरोत्तर जन्मपरम्परानुस्यूतभवपारें मोक्षमिति यावत् , ययुः प्रापुः कीदृशाः सन्तस्ते इत्याकाक्षायामाह-दुःखगर्भ वैराग्यतत्त्वे, न वा स्थिताः, मोहगर्भे वैराग्यतत्त्वे, न वा स्थिताः तेषामुत्तरकाले भवस्यावश्यम्भावात्, तु पुनः, ज्ञानगर्भे वैराग्यतत्त्वे स्थिताः, स एकः परात्मा गतिर्मे जिनेन्द्रः // 27 // स्वाज्ञाविशेषपरिपालनपरायणयोगिजनजीवन्मुक्तावस्थाप्रापकत्वेन भगवन्तं जिनेन्द्रं स्तौति - विहायाश्रवं संवरं संश्रयैव यदाज्ञा पराऽभाजि यैनिर्विशेषैः / स्वकस्तैरकायैव मोक्षो भवो वा स एकः परात्मा गतिमें जिनेन्द्रः // 28 // विहायाश्रवमिति / निर्विशेषैः महावीरे पक्षपातः कपिलादिषु द्वेष इत्येवमाप्रहविशेषनिवन्धनविशेषरहितैः, तदुक्तं हरिभद्रसूरिभिः