________________ 554 दिवाकर कृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / ' तस्मान्न बध्यतेऽद्धा न संसरति नापि मुच्यते कश्चित् / बध्यते मुच्यते च नानाश्रया प्रकृतिः // 17 // " इति वचनात्, 4 तह-तथैक इति बन्ध-मोक्षव्यवस्थार्थमात्मनात्मत्वमिष्यते साख्यः न वेक भात्मेति, यथा सर्वथाऽबन्धस्तथा सर्वथैकः अद्वितीयः “एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन / / आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन // 18 // " इत्यादि श्रुत्या सर्वथैवत्वेनैवात्मनोऽवगमात् , उक्तं च खण्डने श्रीहर्षेण“एकमित्युपादाय यदेव कारणमप्युपादत्ते" श्रुतिः एकमेवेदमितिरूपा तदैकान्तिमैक्यं बोधयतीति भेदाभेदेनाप्यशक्यसमर्थनं घट-पटादिभेदनााहिप्रत्यक्षादि प्रामाण्यमिति'' इति स्थितो वाऽक्षयी वा इत्युभयत्रैव वाकारश्च र्थकः, अथवा स्थितो वेत्येतत्पर्यन्तं वेदान्तमतं तस्य प्रस्थानान्तरत्वसूचनाय वाकारः स्थित इत्यस्य सर्वथा स्थितः अप्रच्युतानुत्पन्नस्थि रैवस्वभाव इत्यर्थः / सर्वथा स्थितत्वेनैवाक्षयित्व सर्वथा विनाशरहितत्वरूपं लब्धमिति तावदेव वेदान्तिकमतम् , क्षयी वापीति भूतचैतन्यवादिचार्वाकमतमाश्रित्य भू-जल-तेजो-वायूनां चतुर्णा भूतानां शरीरात्मको यः परिणामः स एव ज्ञानवानात्मा स क्षयी विनाशी, वा शब्दोऽपिशब्दश्च मिलित्वा पक्षान्तरबोधकः, 'असद्वा' इत्यस्य स्थाने 'असन् वा' इति पाठो युक्तः / सर्वथाऽसन्नात्मेति थैबौद्धर्मतः, तन्मते यत् सन् तत् क्षणिकम् इति व्याप्तेरर्थक्रियाकारित्वलक्षणं सत्त्वं क्षणिकत्वेन व्याप्तमिति नित्यस्यात्मनः सत्त्वव्यापकक्षणिकत्वनिवृत्त्या सत्त्वं निवर्त्तते, किन्तु तन्मते क्षणिकविज्ञानमेवात्मा तस्या सत्त्वं नात्राभिमतं स्थिरस्यैवात्मनः क्षणिकवानवृत्त्या सत्त्वाभावलक्षणमसत्त्वमभिमतमिति, विमूढात्मनाम् अज्ञानतिमिरान्धानां लुप्तसम्यग् :शां, तेषाम् उपदर्शितैकान्तवादिनाम्, यः जिनेन्द्रः, गोचरः ज्ञानविषयः न नैव, स एकः परात्मा जिनेन्द्रो मे गतिरित्यर्थः // 26 // स्वाज्ञानिलीनजन जनितपरम्परालक्षणभवोद्धारकत्वेन जिनेन्द्रं स्तौतिन वा दुःखगर्भे न वा मोहगर्भे स्थिता ज्ञानगर्भ तु वैराग्यतत्त्वे /