________________ दिवाकरकृता किरणावलीकलिता एकविशतितमो वर्धगनद्वात्रिशिका / 553 शीलानाम्. युग्मिनां. युगलधर्मिणां, जातु कदाचिदपि, कलि-व्याल-वह्नि-ग्रहव्याधि चौर-व्यथा-वारण व्याघ्रवीथ्यादिविघ्ना न स्युः कलिः परस्परक्रोधजनितो गालिप्रदान-दण्डादण्डि-युद्धादिजनितक्लेशः, व्याल: सर्पदंश युद्भवमरणभयादिः, वह्निः आकस्मिकघोरशत्रु-भूतादिकृतगृहाहाद्युपद्रवः, ग्रहः शनि-राहुप्रभृतिदुष्टग्रहजनिता पीडा, व्याधिः कफ-पित्त-वायु-धातूद्रेकप्रयुक्ता शरीरजा ज्वरादिलक्षणा पीडा, चौर-पाटच्चरकृतधमापहारजनितं दुःखं, वारणः हस्तिशुण्डादिगृहीतवादादिदूरोत्रादिप्रभवाकालमृत्त्वादिभयम्, व्याघ्रः तरक्षुः व्याघ्रनाम्ना प्रसिद्धो हिंस्रकजन्तुस्तस्य वीथिस्तद्गमनागमनसञ्चारमार्गस्तत्र गमनेन तदुपनिपातप्रभवस्वशरीरादिभक्षणमयं, तदादिविघ्नाः, न म्युन भवन्ति, तत्सर्वप्रतिबन्धकजिनेन्द्रध्यानसातत्यात् , स एकः परात्मा जिनेन्द्रो मे गतिरित्यर्थः // 25 // विमूढात्मभिर्वेदान्तिभिबौ द्वैश्चैकान्तवादिभिबद्धत्व-मुक्तत्वैकत्वानेकत्व-स्थितत्वास्थितत्व-यित्वाक्षयित्व-सत्त्वासत्त्वाद्यनेकान्तयथार्थधर्मयुक्तत्वेनाविज्ञातमात्मस्वरूपं भगवन्तं स्तौति अबन्धस्तथैकः स्थितो काऽक्षयी वा ऽप्यसद् वा मतो मैं डैः सर्वथाऽऽत्मा / न तेषां विमूढात्मनां गोचरो यः स एकः परात्मा गतिमें जिनेन्द्रः // 26 // अबन्ध इति / यैः भनिर्दिष्टनामभिः, जडैः स्वस्वनिमित्तापेक्षबद्धत्व-मुक्तत्वादिधर्माकलितात्मस्वरूपप्रकाशकसम्यगज्ञानादिरहित रे कान्ताद्वैतवादिभिर्वेदान्तिभिरेकान्तक्षणिकत्ववादिभिः सौगतैश्च, आत्मा उपयोगलक्षणो जीवः, सर्वथा एकान्तेन, अबन्धस्तथैकः स्थितो वाऽक्षयी वेति वेदान्तिमतमाश्रित्य अबन्धः कर्मबन्धरहितः "न विरोधो न चोत्पत्तिर्न बद्धो न च साधकः / न मुमुक्षुर्न वैमुक्त इत्येषा परमार्थता // 16 // " इतिवचनात् अबन्धः आत्मा साङ्ख्यस्यापि मतः।