________________ 552 दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / सम्यग्ज्ञान-दर्शन-चारित्रलक्षणसर्वज्ञलक्ष्मीनिवासान् विधाय नरकनिगोदादिकर्मपाताद् रक्षन्येव, स्वपरिपालनतः, अन्यथा सर्वज्ञलक्ष्मीवैमुख्येन नरकनिगोदादिकर्मपातान्न मुच्यते जन्तव इत्यर्थः // 23 // स्वोक्तपरमपुरुषार्थमोक्षभक्ति भाजां कल्पवृक्षादिप्रभावात् सन्निहितान् कुर्वन् जिनेन्द्रः कस्य न स्तुत्य इत्याशयेनाह सुपर्वद्रु-चिन्तामणि-कामधेनु- . प्रभावा नृणां नैव दूरे भवन्ति / चतुर्थे यदुत्थे शिवे भक्तिभाजां , ___ स एकः परात्मा गति, जिनेन्द्रः॥२४॥ सुपर्वेति / यदुत्थे यस्माज्जिनेन्द्रात् प्रकटीभूते, चतुर्थ धर्मार्थ-काममोक्षाख्येषु पुरुषार्थेषु चतुर्थस्थानाभिषिक्ते, शिवे कल्याणमये परमानन्दलक्षणमोक्षे, भक्तिभाजां तदैकस्पृहावताम्, नृणां मनुष्याणाम्, सुपर्वद्रु-चिन्तामणोकामधेनुप्रभावाः 'चिन्तामणी'शब्द: सम्भाव्यते / सुपर्वद्रुः कल्पवृक्षः चिन्तामणीदेवताधिष्ठितो रत्नविशेषः, कामधेनुः सुरगवो एषां प्रभावाः सर्वाभिलषितार्थदातृत्वस्वभावः, दूरे नैव भवन्ति अपि तु सन्निहिता एव भवन्ति यथा कल्पवृक्षादयो निरुक्तस्वभावास्तथा जिनेन्द्रविभूतशिवभक्ता अपि, स एकः परमात्मा जिनेन्द्रो, मे गतिरित्यर्थः // 24 // स्वाज्ञापरायणयुगलभिंगताशेषविघ्नात्यन्तोच्छेदकत्वेन भगवन्तं स्तौतिकलि-व्याल-वह्नि-ग्रह-व्याधि-चौर व्यथा-वारण-व्याघ्र-वीथ्यादिविघ्नाः / यदाज्ञाजुषां युग्मिनां जातु न स्युः स एकः परात्मा गतिर्मे जिनेन्द्रः // 25 // कलि-व्यालेति / यदाशाजुषां यस्य परमात्मनो जिनेद्रस्याज्ञापरायणानां जिनेन्द्रेण यथा यत्कर्तव्यत्वेनोपदिष्टं तत्तथैवाचरणीयमिति श्रद्धया तथैवाचरण