SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिशिका / 551 इति गोतावचमसङ्गति पुरस्कुर्वन् स्तुतिकारस्तुर्यलोकोत्तमत्वेन जिनेन्द्र प्रति पादयति / धार्यलोकत्रयविधारकस्य तुरीयलोकोत्तमत्वमलौकिकत्वं ख्यापयति, अत एव लौकिक-लोकोत्तरमेदेनाप्तस्य द्वैविध्यं तत्र जनकादिलौकिकतीर्थङ्करश्च लोकोत्तर इति विभजनमप्युपपद्यते, उरीकृत्य स्वीकृत्य, युक्तैवेयमाज्ञा कर्तव्य मेव तत्परिपालनमित्येवं स्वयमभ्युपगम्य न तु भीत्यादित इति यावत्, वहन्तौ तदर्थानुष्ठानेन परिपालयन्ती, इमौ आपार मारलोकप्रत्यक्षविषयौ, पुष्द पन्तौ सूर्याचन्द्रमसौ, एकयोक्त्या पुष्पदन्तौ दिवाकरन्शिाकरौ इति कोशात् , अत्र जगति अस्मिन् मर्त्यलोके, विश्वोपकाराय सर्वेषां जन्तूनां स्वस्वाभितमतकार्यभराविघ्नावाप्तिलक्षणोपकारार्थम् , दिष्टया अचिन्त्यस्वरूपभाग्यलक्षणादृष्टेन, उदयेते उदयं गच्छतः, स एकः परात्मा जिनेन्द्रो मे गतिरित्यर्थः // 22 // पुनर्विशिष्टाज्ञात्वेन भगवन्तं स्तौतिअवत्येव पातालजम्बालपातात् विधायापि सर्वज्ञलक्ष्मीनिवासान् / यदाज्ञा विधित्साश्रिताऽनङ्गभाजः स एकः परात्मा गतिर्मे जिनेन्द्रः // 23 // अवत्येवेति / यदाज्ञा यस्य जिनेन्द्रस्याज्ञा, सर्वज्ञलक्ष्मीनिवासान् सर्वस्य सर्वविदो या लक्ष्मीः सम्यग्ज्ञान-दर्शन-चारित्रलक्षणा, तन्निवास'न् तदाधारभूतान् , विधायापि कृत्वाऽपि, पातालजम्बालपातात् नरकनिगोदादि. कर्दमपातात , अवत्येव रक्षत्येव, एतावता सफलीभूताऽपि सा, अनङ्गभाज: अष्टविधकर्मलक्षण कार्मणशरीररहितान् मुक्त्यङ्गनालिाङ्गता सिद्धान्, विधित्साश्रिता विधात्सा कर्तुमिच्छा तामाश्रिता, सम्यगज्ञान-दर्शन-चरित्रोत्पादनद्वारा नरकनिगोदादिकर्दमपातं समूलमुत्सार्य परमानन्दावाप्तिलक्षणमुक्त्यास्पदान् भव्यान् कुर्वती यदाज्ञोज्जम्भते, स एकः परात्मा जिनेन्द्रो मे गतिः, जिनाज्ञां सम्यक् परिपालयतामन्तेऽवश्यं परमानन्दावाप्तिलक्षणा मुक्तिरिति भवति जिनेन्द्रः शरणमित्यर्थः अथवा विधित्माश्रितानङ्गमाज इत्यत्र अङ्गभाजः शरीरिणः विधित्साश्रिः तान् किमपि स्वाभिमत कार्य कत्तुं समोहमानान् पुरुषार्थोद्यतान् भव्यान् यदाज्ञा
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy