________________ 550 दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / कीर्त्या प्रतापेन च राज्ञो वर्णनं विच्छित्तिविशेषजनकं भवति तत्र कीर्त्या सर्वजनप्रसिद्धिरूपग्राहिता भवति, प्रतापेन च तद्भीतितोऽनीत्याद्याचरणं प्रजायां न भवति, प्रकृते धर्मप्रतापस्तीतितः स्वस्वभावव्यस्थिताः पदार्था अन्योपघातादिकं न कुर्वन्तीत्याशयेनाह-यदिति यस्मादुक्तप्रतापादित्यर्थः, ज्वालाजिहवः हुतं घृतादिकं ज्वालयाऽत्तीति ज्वाला जिह्वा यस्येति व्युत्पत्त्या ज्वालजिह्वो वह्निः, तिर्यग् तिर्यक्षु, न ज्वलत्येव न स्वशिखां प्रसारयति तथा सति तिर्यग्देशव्यवस्थितानामपि दाह्यानां दाहतस्तत्परम्परया लोकव्याकुलीभावः प्रसज्येत, किन्तूवमैव ज्वलति, यत्प्रतापाद् भीतः, प्रचण्ड: प्रबलोऽपि, नभस्वान् वायुः, ऊर्ध्वं न वाति किन्तु तिर्यगेव वाति, वह्नि-वायोर्द्वयोरप्यूर्ध्वगमनस्वभावत्वेऽन्योऽन्यसम्बन्धासम्भवात् परस्परसहकारिभावेन कार्यकरणमेव न स्यात्, स एकः परात्मा जिनेन्द्रो मे मम गतिः, अत्र प्रतापवत्तया भगवत एव स्तुतौ विवक्षायां यस्य महावीरस्य भावधर्मनृपस्य प्रतापो जागर्तीत्यर्थः सङ्गत इत्यर्थः // 11 // सूर्याचन्द्रमसोः प्रतिपददिवसं लोकोपकारायोदयोऽपि जिनाज्ञापरिपालननियत इति सर्वशिरोधार्याज्ञावत्तया भगवन्तं महावीरं स्तोति इमौ पुष्पदन्तौ जगत्यत्र विश्वो पकाराय दिष्टयोदयेते वहन्तौ / उरीकृत्य यत् तुर्यलोकोत्तमाज्ञां ___ स एकः परात्मा गतिमें जिनेन्द्रः // 22 // इमाविति / यत्तुर्यलोकोत्तमाज्ञां यस्य तुर्य लोकोत्तमस्य भावतो लोकोत्तरस्य, आज्ञां विध्यपवादसङ्घटितानेकान्तत्वप्रतिपादकान्याबाध्यप्रमाणराजस्याद्वादागमलक्षणाम् अधमाधमाऽधम-विमध्यम-मध्यमोत्तमभेदेन पुरुषाणां षड्विधत्वमिति जिनेन्द्रस्तीर्थङ्कर उत्तमोत्तमः तस्य- . "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः / यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः // 15 // "