________________ दिवाकरकृता किरणावलोकलिता एकविंशतितमो वर्धमानद्वात्रिंशिका ! 519 स्तथाऽऽविर्भूतस्वरूपी यः सद्धर्मः तपस्संयम-सूनृत-ब्रह्म-शौच-मृदुत्वार्जवाकिञ्चनत्वनिर्वाण-क्षमालक्षणः समीचीनो धर्मः, तस्य यत्साम्राज्यं सक्लजनसाधारणशिष्योपशिष्यपरितापश्चिमतीर्थङ्करोपदेशसआतसविध्यनुष्ठानलब्धाकालभृत्यपरीहारादिकं तेन वश्यस्तदनुकूल कार्यकपरितिष्ठतः यथा तथा स्वकीयजलानां मर्यादोल्लङ्घन नियमितदेशोत्सर्पणे क्रियमाणे जन्तूनामुपघातो धर्मसुरक्षितानां मा भूदिति नियमितः, अम्भोधिः समुद्रः, भूतधात्री पृथ्वीम्, न च नैव, आप्लावयेद् जलमयों कुर्यात् अत एव 'धर्मो रक्षति * रक्षितः' इतिवचनं सङ्गतार्थ भवति, प्लावये. देव, ततश्च जन्तूनामकालमरणादिकमनिवारितप्रसरं स्यादित्यर्थः, अम्बुवाहः मेघः, यदुद्भूतसद्धर्मसाम्राज्यवश्यः सन् , काले वर्षाकाले भूतधात्री, समाश्वसयत्येव समीचीनमा वासनभाजनां यथावदुप्तबीज ङ्गुरप्रादुर्भावयोग्यतालक्षणां विदधात्येव, जिनोद्भूतसद्धर्मसाम्राज्यवशीभूतत्वाभावे तु कालेऽवर्षणतिवर्षणं वर्षाकालमतिक्रम्य वर्षणं वा कुर्वन् मेघो भूतधात्रीमकुरादिप्रादुर्भावायोग्यत!पादने न भूतप्राणहरां जरोपद्रवायनेकपोडाजननीमेव विदध्यादित्यर्थः, स एवंभूतधर्मप्रभावः, एकः परात्मा जिनेन्द्रो मे मम गतिरित्यर्थः // 20 // "न ज्वलत्यनलस्तिर्यग् न चोध्वं वाति चानिलः / अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् // 1 // " इतिवचनस्तुतोऽपि धर्मविशेषो जिनोक्तातिशयितप्रतापशालिधर्म एवेति विशिष्टप्रतापधर्मोपदेशकं भगवन्तं स्तौति - न तिर्यग् ज्वलत्येव यद् ज्यालजिह्वो यज़ न वाति प्रचण्डो नभस्वान् / स जागर्ति यमराजप्रतापः स एकः परात्मा गतिमें जिनेन्द्रः // 21 // न तिर्यग् ज्वलत्येवेति / यद्धर्मराजप्रतापः यस्य महावीरस्य यो धर्मराजः सर्वेषामन्यधर्माणां मूर्द्धाभिषिक्तत्वेन राजा नृपो धर्मविशेषस्तस्य प्रतापः प्रभावो महिमाविशेषः, जागर्ति सर्वदा स्फुटस्वरूप एव कार्योन्मुख एवावतिष्ठते,