SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 518 दिवाकरकृता किरणविलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / / mmsmaran उत्कृष्टशक्तिमद्धर्मप्ररूकत्वेन परात्मानं जिनेन्द्रं स्तौतिअहो ! विष्टपाधारभूता धरित्री निरालम्बनाधारमुक्ता यदास्ते / अचिन्त्यैव यद्धर्मशक्तिः परा सा स एकः परात्मा गति, जिनेन्द्रः // 19 // अहो इति / यद्धर्मशक्तिः यस्य जिनेन्द्रस्यानन्तराव्यवर्णितस्य दशविधधर्मस्य सकलशिष्टसमाराधितस्य शक्तिः तन्निजफलाविर्भावना स्फूर्तिः, अचिन्त्यैव कथमित्यमित्येवं चिन्तयितुमशक्यैव, अत एव सा परा सकलान्यधर्मेभ्य उत्कृष्टा जगति प्रद्योतते, अहो आश्चर्य, यया शक्त्या धारित्री पृथ्वी, विष्टपाधारभूता त्रैलोक्यजनाधारभूता, निरालम्बना यत्किञ्चित् पदार्थावष्टम्भरहिता, आधारमुक्ता स्तम्भादिलक्षणाधिकरणनिरूपिता ध्येयत्वशून्या, यत् यस्मात्, आस्ते अतिष्ठते, एतादृशः सोऽनन्य सदृशः, एकः परात्मा जिनेन्द्रो मे मम गतिः शरणम् , स्वध्यानोत्थाखिलकर्मपटलात् त्वन्तक्षयाविर्भूतपरमानन्द लक्षणमोक्षपदो भविष्यतीत्यर्थः // 19 // ___ यद्धर्मनियन्त्रितशक्तित: समुद्रादिकं वेलादिकतिक्रम्य भूतादीनामवघातादिकमुपद्रवं न जनयतीति विशिष्टधर्मप्रवर्तकतया भगवन्तमभिष्टौति न चाम्भोधिराप्लावयेद् भूतधात्रों समाश्वासयत्येव कालेऽम्बुवाहः / यदुद्भूतसद्धर्मसाम्राज्यवश्यः स एकः परात्मा गति जिनेन्द्रः // 20 // - न चाम्भोधिरिति / यदुद्भूतसद्धर्मसाम्राज्यवश्यः यस्मादपश्चिमतीर्थकुरान्महावीरादुद्भूतः प्रकटीभूतः अनादिकालतोऽनल्पभव्यपरम्परयाऽऽराधितत्त्वादवास्थितोऽपि एतावा नोदृशशक्तिमान् विधि-निषेधविषयतयाऽपरिस्फुटरूप
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy