________________ दिवाकरकृता किरणावलोकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / 547 चिनोति, उपदिश्यमानमपि च श्रेणौ न प्रतिपद्यते, तस्मादेषां मदस्थानानां निग्रहो मार्दवं धर्मः, आर्जव मायारहितत्वम्, भावविशुद्धिरविसंवादनं चार्जवलक्षणम् ऋजुभावः ऋजुकर्म वाऽऽर्जवम् भावदोषवर्जनमित्यर्थः, भावदोषयुक्तो हि उपधिनिकृतिसंप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते, तस्मादार्जवं धर्मः, अकिञ्चनत्वं निष्परिग्रहत्वम् शरीरधर्मोपकरणादिषु निर्ममत्वमिति यावत् , मुक्तिः निर्लोभता, त्य गशब्देनाप्युच्यते स च बाहयाभ्यन्तरोरधिशरीरान्नपानाद्याश्रयो भावदोषपरित्यागः, क्षमा क्रोधोपशान्तिः, क्षमा-तितिक्षा-सहिष्णुत्वं क्रोधनिग्रह इत्येते शब्दा समानार्थकाः, क्षमाधर्मप्रतिपादनपरं तत्त्वार्थभाष्यमित्थम्-तत्कथं क्षमितव्यमिति चेदुच्यते-क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनादभावचिन्तनाच्च क्षमितव्यम् भावचिन्तनात् तावद् विद्यन्ते मयि एते दोषाः किमत्रासौ मिथ्या ब्रवीतोति क्षमितव्यम्, अभावचिन्तनादप क्षमितव्यम् नैते विद्यन्ते मयि दोषाः या न ज्ञानादसौ ब्रवीतीति क्षमितव्यम् किञ्चान्यत् क्रोधदोषचिन्तनाच्च क्षमितव्यम्, क्रुद्धस्य हि विद्वेषासादनस्मृतिभ्रंशत्रत लोपादयो दोषा भवन्तीति, किश्चान्यत् बालस्वभावचि-तनाच्च परोक्ष-प्रत्यक्षाक्रोश-ताडनमारण-धर्मभ्रं गानामुत्तरोत्तररक्षार्थम्, बाल इति मूढमाह-परोक्षमाकोशति बाले क्षमितव्यमेव, एवंस्वभावा हि बाला भवन्ति, दिष्ट्या च मां परोक्षमाक्रोशति न प्रत्यक्षमिति लाभ एव मन्तव्यः, प्रत्यक्षमाप्य कोशति ब.ले क्षमितव्य, विद्यत एवैतद्धालेषु, दिष्टया च मां प्रत्यक्षमाक्रोशति न ताडयति, एतदप्यस्ति बालेविति, लाभ एव मन्तव्यः, ताडयत्यपि बाले क्षमितव्यं एवंस्वभावा हि बाला भवन्ति, दिष्ट्या च मां ताडयति न प्राणैर्वियोजयतोति एतदपि विद्यते बालेविति, प्राणैर्वियोजयत्यपि बाले क्षमितव्यं दिष्टया च मां प्रणैर्नियोजयति न धर्माद् भ्रंशयतीति क्षमितव्यम् एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः, किश्चान्यत्, स्वकृतकर्मफलाम्यागमाच्च स्वकृतकर्मफलाभ्यागमो मम, निमित्तमात्रं पर इति क्षमितव्यम् . किञ्चान्यत् क्षमागुणां चानायासादीति, ननु स्मृत्या क्षमितव्यमेवेति क्षमाधर्मः, एवं दशविधो धर्मो" येन महावीरेणोक्तः, स एको परात्मा जिनेन्द्रो भगवान् महावीरो मे गतिरित्यर्थः // 18 / /