________________ 541 दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / यस्य जिनेन्द्रस्य पूर्वापरत्वं पूवापरीभावः अयमस्मात् पूर्वः-प्रथमः, अयं चास्मादपरः-द्वितीयः इत्येवंस्वरूपा संज्ञा नास्ति, अनाद्यनन्तत्वात् , स एकः परात्मा जिनेन्द्रो मे गतिरित्यर्थः // 15 // - अच्छेद्यत्वा-ऽभेद्यत्वा-ऽक्लेद्यत्वादिधर्मवैशिष्टयेन वैशिष्टयं भगवतः स्तौति छिदा नो भिदा नो न क्लेदो न खेदो . न शोषो न दाहो न तापादिरापत् / न सौख्यं न दुःखं न यस्यास्ति वाञ्छा स एकः परात्मा गति, जिनेन्द्रः // 16 // छिदेति / यस्य जिनेन्द्रस्य, शस्त्रादिभिः, छिदा छेदन-प्रदेशद्वैधीभावः, नो न भवति; यस्य जिनेन्द्रस्य, भिदान्ते क्रकचपत्रादिभिर्विदारणम्-अन्तयवस्थितप्रदेशानामपि बहिनिस्सारणं, न नास्ति, यस्य क्लेदः जलादिभिः क्लेदनम्-आर्दीकरणं, न नास्ति; यस्य खेदः गत्यागतिप्रयुक्तपरिश्रमप्रभवं दुःखं, नास्ति; यस्य शोषः शोषण-प्रदेशापचयः, न नास्ति; यस्याग्न्यादिना दाहः दहनं-भस्मीभवनलक्षणं, न नास्ति; यस्य तापादिः दिनकरकरावमर्शप्रभवः तापः, शीतकिरणनिपातप्रभवं शैत्यं, तदेव दुःखजनकत्वाद् आपत् कष्टं, न नास्ति, यस्य सौख्यं कामिनीमुखाद्यवलोकन-तदालिङ्गनादीन्द्रियसम्पर्कप्रभवं च सौख्यं वैषयिकानन्दलक्षणमापान्तरमणीयं, न नास्ति; दुःखं विषयेन्द्रियविकारप्रभवं शत्रुध्याघ्रादिजनितमरणसम्भावनाकातरमनःप्रभवं च दुःखं यस्य न नास्ति; यस्य वाञ्छा अभिनवविषयप्राप्तिस्पृहा, न नास्ति, स एको जिनेन्द्रः परात्मा मे गतिरित्यर्थः // 16 // न योगा न रोगा न चोद्वेगवेगा: स्थितिनों गतिनों न मृत्युन जन्म / न पुण्यं न पापं न यस्यास्ति बन्धः स एकः परात्मा गति, जिनेन्द्रः॥१७॥ न यागा इति। यस्य जिनेन्द्रस्य, सिद्धावस्थां गतस्यायोगित्वेन, योगाः काय-वा-मनोलक्षणा आस्रवाः, न न विद्यन्ते; रोगाः कास-श्वास-ज्वरा-अतिसारादयो