________________ दिवाकरकृता किरणावलीकालता एकविंशतितमी वर्धमानद्वात्रिंशिका। 515 यस्य नास्ति; यस्य न उद्वेगवेगाः उद्वेगस्य चित्तोद्वे जनस्यौदासीन्यादिलक्षणस्य, वेगाःत्वरातिशया न सन्ति; यस्य जिनेन्द्रस्य, न स्थितिः आयुषोऽवस्थानलक्षणा नास्ति, यस्य जिनेन्द्रस्य, न गतिः भवभ्रमणं-पूर्वभवादुत्तरभवगमनं नास्ति, सिद्धिशिलोपलक्षितदेशे लोकाप्रे व्यवस्थितस्योवं स्थित्युपष्टम्भकस्वभावाधर्मास्तिकायाभावनस्थितिः, गत्युयष्टम्भकधर्मास्तिकायाभावान्न गतिरिति वाऽर्थः; यस्य जिनेन्द्रस्य, न मृत्युः प्राणादिवियोगलक्षणो नास्ति, वियोगस्य संयोगपूर्वकत्वेन सिद्धावस्थायां प्राणादिसंयोगाभावे तदपगमलक्षणवियोगासम्भवात् ; यस्य चतुरशीतिलक्षजीवयोनिषु गर्भावतरणलक्षणं, न जन्म नास्ति, कार्मणशरीरसम्बन्धबलादेव तस्य तथाविधं जन्म, तदभावात् तदभावः; यस्य न पुण्यं सातावेदनीयलक्षणं नास्ति; यस्य न पापम् असातावेदनीयलक्षणं नास्ति, तत्कारणस्यवेदनीयकमोऽत्यन्तापगमेन साताऽसातावेदनीयकर्मोदयस्याभावात्; यस्य न बन्धः अभिनवकर्मादानलक्षणो नास्ति, समस्त कर्मणापत्यन्तक्षयेनाभिनवकर्मादान. हेतोरास्रवस्यैवाभावात्; स एको जिनेन्द्रः परात्मा मे गतिरित्यर्थः॥१७॥ सर्वोपादेयतपःसंयमादिदशविधधर्मोपदेशकावलणं जिनेन्द्रस्य वैशिष्टयं स्तौति तपः संयम : सूनृतं ब्रह्म शौचं _मृदुत्वार्जवाकिन्चनानि मुक्तिः / क्षमेवं यदुक्तो जयत्येव धर्मः स एकः परात्मा गतिर्मे जिनेन्द्रः // 18 // तप इति / यदुक्तः येन जिनेन्द्रेणापश्चिमतीर्थङ्करमहावीरेण प्रोक्तः दशविधः धमों जयत्येव सर्वोत्कर्षेण वर्तत एव, पृथक् प्रथम् नामकीर्तनेन दशविधं धर्म दर्शयति-तप तपो द्विविध बाह्यम् आभ्यन्तरश्च तत्र "अनश. भावमौदर्य-वृत्तिपरिसंख्यान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशा बाह्य तपः" इति तत्वार्थसूत्रतो बाह्यं तपः षविधम्, भाभ्यन्तरमपि “प्रायश्चित्त-विनय