SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / 543 नीलादिकं यस्यास्ति, पुद्गलभिन्नत्वादेव; वैशेषिकनये शब्दरहितोऽपि रूपवान् भवतीति न शब्दनिषेधेन रूपनिषेध आयातीति पृथक् प्रतिषेधः, शब्दनिषेधाच्छोत्रग्राह्यत्वनिषेधः, रूपनिषेधान्नयनेन्द्रियग्राह्यत्वनिषेधः, नापि रसः रसनेन्द्रियग्राह्यो मधुराम्लादिरसो यस्य, नापि-नैव, अस्ति विद्यते, यद्यपि वैशेषिकादिमतेऽपि रूपस्य रसव्यापकत्वमिति व्यापकस्य रूपस्याभावाद् व्याप्यस्य रसस्याभाव भायात्येव, तथापि तन्मते रस-रसवतोभैंदाद् रसनेन्द्रियस्य च द्रव्याग्राहकत्वं, जैनमते तु रस-तद्वतोः कथञ्चित् तादात्म्याद् रसस्य रसनग्राह्यत्वे तद्वतोऽपि रसग्राह्यत्वं रसाभावे तु न रसनग्राह्यत्वमिति जिनेन्द्रे रसनेन्द्रियग्राह्यावाभाव- प्रतिपत्तये रसस्य पृथग् निषेधः; नवा नैव, गन्धो घ्राणेन्द्रियग्राह्यः सुरभिरसुरभिश्च, यस्यास्ति, अत्रापि जिनेन्द्रस्य घ्राणेन्द्रिय ग्राह्यत्वाभावावगतये गन्धनिषेधस्य पृथ गुक्तिः, स्पर्शलेशः त्वगिन्द्रियग्राह्याष्टविधस्पर्शानां मध्ये कोऽपि स्पर्शो यस्य नास्ति, जैनमते स्पर्शस्य रूपादिसमनियतत्वेन रूपादिनिषेधात् स्पर्शनिषेध आयाति, किन्तु वैशेषिकमते रूपादिशून्येऽपि वायो स्पर्शो विद्यत इति तन्मतसाधारण्येन तत्प्रतिपत्तये पृथगुक्तिः, ततश्च जिनेन्द्रस्यापि त्वगिन्द्रियग्राह्यत्वनिषेधः; एतेषां पञ्चेन्द्रियविषयाणां सिद्धस्वरूपे जिनेन्द्र निषेधे कार्मणशरीरसम्बन्धाभाव एव निमित्तम् ; यत्तु सिद्धानामतोन्द्रियत्वादेते न सन्तीति तद् विचारणीयम् , परमाणूनां सङ्घातभावमनापन्नानामतोन्द्रियाणामपि रूपादिमत्त्वादेवं सिद्धानामतीन्द्रियत्वे प्रत्यक्षयोग्यरूपाद्यभावेऽपि तदयोग्यरूपादिमत्त्वं स्यादेवेति; तथा यस्य वर्णों नास्ति अत्र वर्णपदेन श्वेतादिपञ्चप्रकारस्योपादानं न सम्भवति, न रूपमित्यनेन रूपनिषेधे तत्प्रकारस्य श्वेतादेरपि निषिद्धत्वात् , किन्तु वर्णः ब्राह्मण-क्षत्रिय-वैश्य शूद्रस्वरूपचतुर्वर्णः, सा शरीरसम्बन्धनिबन्ध इत्यशरीरे जिनेन्द्रे नास्ति, लिङ्गं पुं-स्त्री-नपुंसकलक्षणम् , जिनेन्द्रस्य मुक्तत्वेनावेदकस्य नास्तीति; वस्तुतो ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थ-संन्यासानां चतुर्णामाश्रमाणां, सन्यासिनामपि जैन-बौद्ध-वैष्णव शैवादिप्रस्थानभेदानां तदवान्तरभेदभाजां च परस्परव्यावर्तकं विभिन्नं लिङ्ग-चिह्न भवति, जिनानामपि भवस्थावस्थायां विभिन्न लिङ्ग-लाञ्छनं भवति, तच्च सर्व शरीरसम्बन्धनिबन्धनमशरीरस्य मुक्तस्य जिनेन्द्रस्य नास्तीति;
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy