________________ 542 एकदिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका प्रकारान्तरेण त्रिपदोसम्बन्धेन जिनेन्द्रं म्तौति यदाज्ञा त्रिपधेव मान्या ततोऽसौ - तदस्त्येव नो वस्तु यन्नाधितष्ठौ / अतो ब्रूमहे वस्तु यत् तद् यदीयं स एकः परात्मा गतिम जिनेन्द्रः // 14 // यदाक्षेति / यदाज्ञा यस्य जिनेन्द्रस्य, आज्ञा-अवश्यस्वीकर्तव्यत्वावबोधनप्रवणा मुद्रा, त्रिपदो एव, मान्या शिरोधार्या, ततः तस्मात् कारणात, असौ त्रिपदीलक्षणाज्ञा, यत् यद् वस्तु, न नैव, अधितष्ठौ आलिङ्गितवती, अर्थात् त्रिपदीप्रतिपाद्योत्पाद-व्यय-ध्रौव्यात्मकं यन भवति, तद् वस्तु, नोऽस्त्येष नास्त्येव, पराभ्युपगतमेकान्तोत्पादादिलितं शशशङ्गकल्पत्वाद् वस्त्वेव न भवति, किन्तु यत् त्रिपदीप्रतिपाद्यकश्चिदुत्पादत्रयाकलितं तदेव वस्तु, अतः अस्मात् कारणात् त्रिपदीलक्षणजिनाज्ञापरिपालनपरत्वात्, ब्रमहे वयं जैना वच्मः, यदीयं यजिनेन्द्राज्ञाकलितं, यद् भवति, तद् वस्तु, स एको जिनेन्द्रो मे गतिरित्यर्थः // 14 // . भवस्थस्य रूप-रस-गन्ध-स्पर्शादिगुणवत्कार्मणशरीरेण नीर-क्षीरवदन्योऽन्यप्रोतस्य शब्दादियुक्त त्वेऽपि मुक्त्यङ्गनालिङ्गितस्योक्तशरीरसम्बन्धात्यन्तापगमे न शब्दादिमत्त्वमिति निष्कलङ्कसच्चिदानन्दस्वरूपो जिनेन्द्रो ध्येयः सन् स्वस्वरूपतावाप्तिसंपादनेन भक्तं मामुपकरिष्यतीत्याभिप्रायेण मुक्तं तं स्तौति न शब्दो न रूपं रसो नापि गन्धो नवा स्पर्शलेशो न वर्णों न लिङ्गम् / न पूर्वापरत्वं न यस्यास्ति संज्ञा ___स एकः परात्मा गतिमें जिनेन्द्रः // 15 // न शब्द इति / यस्य जिनेन्द्रस्य, न शब्दोऽस्ति पुद्गलगुणस्य श्रोत्रप्राह्यस्य तस्य पुद्गलात्यन्तभिन्ने जिनेन्द्रेऽसम्भवात् , न रूपं चक्षुह्यं शुक्ल